पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[[अ०१.०२. ] ६१८ विंशं काण्डम ५५५ तिरक्षकाः सन्ति तेषां मध्ये स एव श्रेष्ठतम इत्यर्थः । गोपा- यतेः किपि अतोलोपयलोपौ । यस्माद् एवं तस्माद् ममापि य- ज्ञगृहे सोमं पिबत्तेत्यभिप्राय: ॥ तृतीया ॥ उ॒क्षान्द्रा॑य व॒शान्ना॑य॒ सोम॑पृ॒ष्ठाय वे॒धये॑ । स्तोमै॑र्वधेमा॒ग्नये॑ ॥ ३ ॥ उ॒क्षऽअ॑न्नाय । व॒शाऽअ॑न्नाय । सोम॑ऽपृष्ठाय । वे॒धये॑ । स्तोमैः । विधेम । अ॒ग्नये॑ ॥ ३ ॥ उक्षः सेचनसमथों गौः अन्नं यस्य स तथोक्तः । तादृशाय तथा व- शान्नाय । वशा वन्ध्या अजादिका सा अन्नं हविर्यस्य स वशान्त्रः । तस्मै । उक्षवशयोरग्नेरन्नत्वम् “ अगोरुधाय” इत्येतं मन्त्रं व्याचक्षाणेन आश्वलायनेन उक्तम । " एत एव म उक्षाणश्च ऋषभाश्च वशाश्च भ वन्ति" इति [ आश्व° गृ० १.१] । तथा सोमपृष्ठाय सोमः सोमरसः पृष्ठे उपरिदेशे मुखे यस्य स तादृशाय वेधसे विधात्रे सर्वस्य त्रष्ट्रे एवम् उक्तगुणविशिष्टाय अग्नये अङ्गनादिगुणविशिष्टाय देवाय अम्नये अभ्य र्थम । ४" क्रियाग्रहणं कर्तव्यम्” इति चतुर्थी 8 1 स्तोत्रैः स्तुतिसाधनभूतैः शस्त्रादिभिः विधेम परिचरेम | धाने । तौदादिकः ॥ " इति प्रथमं सूक्तम् ॥ स्तोमैः

  • विध वि-

'मरुतः पोत्रात्" इत्याद्याश्चत्वार ऋतुप्रैषाः । तत्र आद्योत्तमाभ्यां पोता यजति । द्वितीयतृतीयाभ्याम् आनी ब्राह्मणाच्छंसिनौ । सूत्रितं हि । " सदस्युपविष्टा यथाप्रैषम् ऋतून यजन्ति । मरुतः पोत्राद् इति प्रथ- मोतमाभ्यां पोता । द्वितीययाग्नीभः । तृतीयया ब्राह्मणाच्छंसी ” इति [वै० ३.९] ॥ 1 S' 'यजंते. "