पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०१. सू०४.] ६२० विंशं काण्डम् | ५५९ इन्द्रत्वा त्वां ब्रह्मा ब्रह्मयुजौ ब्रह्मणा मन्त्रेण रथे युज्यमानौ हरी अभिमतप्रदेशं प्रति आहरणशीलौ एतन्नामानावश्वौ । एताविन्द्र- स्य प्रतिनियतौ । हरी इन्द्रस्य लोहितोग्नेर्हरित आदित्यस्येत्यादि निरुक्तात् [ निघ० १. १५] । तावेव विशिनष्टि केशिनेति । केशिना केशिनी प्रकृष्टैः केशैः स्कन्धवाल इत्यादिप्रदेशस्यैर्युक्तौ । अनेन तयोः प्र- भूतशक्तिमत्त्वम् उक्तं भवति । तौ आ वहताम् आगमयताम् । तदर्थं नः अस्माकं ब्रह्माणि आह्वानसाधनान् मन्त्रान् उप शृणु । अथ वा आगत्य नः ब्रह्माणि स्तोत्राणि उप शृणु । ४ बृह बृहि वृद्धौ इत्य- स्य बृंहेरम नलोपश्च [०४, १४५] इति मनिन्प्रत्यये नलोपे च कृते संनियोगेन अमागमे च कृते ब्रह्मेति रूपम् ॥ तृतीया ॥ ब्र॒ह्माण॑स्त्वा व॒यं यु॒जा सो॑म॒पामि॑न्द्र सोमिन॑ः । सु॒ताव॑न्तो हवामहे ॥ ३ ॥ ब्र॒ह्मार्ण । त्वा॒ । व॒यम् । युजा । सोमऽपाम । इन्द्र । सोमिनः । सु॒ऽव॑न्तः । ह॒व॒महे॒ ॥ ३ ॥ हे इन्द्र वयं यजमाना ब्रह्माणः ब्राह्मणाः । यद्वा ब्रह्माण: ब्राह्मणा- च्छंसिनो वयम् । ४ ब्रह्मशब्दः पुंलिङ्गोन्तोदात्त: है । त्वा त्वां युजा । युज्यत इति युक् । स्तोतव्यदेवताहृदयस्पृशा स्तोत्रेण हवामहे आ- हृयाम: । कीदृशं त्वाम् । सोमपाम सोमस्य पातारम् । इन्द्रस्य सोम- पाने अतिशयितप्रियत्वाद् एवं विशेष्यते । कीदृशा वयम् । सोमिनः सोमवन्तः कृतसोमयागाः । अस्तु प्रस्तुते किमायातम् इति तत्राह । सुतावन्तः सोमानभिषुतवन्तः सुतेन सोमेन युक्ता वा । अभिषवग्रहणा- दिसंस्कारैः संपादितसोमा इत्यर्थः । ४ छान्दसो दीर्घः ४ ॥ 66 [इति ] तृतीयं सूक्तम् ॥ 'आ नो याहि " इति सूक्तस्य पूर्वसूक्तेन सह उक्त विनियोगः ॥ 1 $ सोमाभिषुवंतः