पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६० अथर्व संहिताभाष्ये तत्र प्रथमा ॥ आ नो याहि सु॒ताव॑तो॒स्माकै सुष्टुतीरुपं । पिवा॒ सु शि॑मि॒न्नन्ध॑सः ॥ १ ॥ . आ । नः॒ । बा॒हि॒ । सु॒तऽव॑तः । अ॒स्माक॑म् । सुऽस्तु॒तीः । उप॑ । पिब॑ । सु । शि॑मि॒न् । अन्ध॑सः ॥ १ ॥ । हे इन्द्र सुतावतः सूयते अभिषूयत इति सुतः सोमः । ततः अभि- षुतसोमान् नः अस्मान् प्रति । “शरादीनां च " इति मतुपि पू- र्वपदस्य सांहितिको दीर्घः ४ । आ याहि आगच्छ । तदेव विशिनष्टि । अस्माकं सुष्टुती: शोभनाः स्तुतीः उपा याहि उपागच्छ । सोमे सुसंस्कृ- ते कृते च शस्त्रे अवश्यम् आगच्छेत्यर्थः । आगत्य च हे सुशिमिन शोभनहनूयुक्त । अनेन सोमपानोचितवक्रोपेतत्वम उक्तं भवति । अथ वा शोभननासिकोपेत । अनेन सोमरसाघाणोचितनासायुक्तत्वम् उक्तं भव- ति । शिमे हनू नासिके वेति निरुक्तम् [ नि०६. १७]x । ता- त्वम् अन्धसः अन्धः अन्नं सोमरसलक्षणम् अन्धस एकदेशं वा ग्र- हेण धृतम् अंशं पिब पानं कुरु ॥ द्वितीया ॥ आ ते॑ सिञ्चामि कुक्ष्योरनु गात्रा वि धांवतु । गृ॒भाय जि॒ह्वया॒ मधु॑ ॥ २ ॥ आ । ते । सञ्चामि । कुक्ष्योः । अनु॑ । गात्रा॑ । वि । धा॒वतु । गृ॒भा । जि॒ह्वया॑ । मधु॑ ॥ २ ॥ 1 हे इन्द्र ते तव कुक्ष्योः । भागद्वयापेक्षया द्विवचनम् । कुरुभयोः पार्श्वयोः आ सिञ्चामि पूरयामि । सोमरसम् इति शेषः । अनेन दी - यमानस्य सोमरसस्य कुक्ष्यवयवपूर्तिपर्यन्तम् अभिवृद्धिरुक्ता भवति । स च उदरस्थो गात्रा गात्राणि । अनेन गात्रशब्देन गात्रावयवा लक्ष्यन्ते । 1S तादृशस्त्वम्.