पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६२ अथर्वसंहिताभाष्ये हे इन्द्र विचर्षणे । विचर्षणिः पश्यतिकर्मा । हे विद्रष्टः इन्द्र जनी रिव जनय इव । ४ विभक्तिव्यत्ययः ? । जनयन्यपत्यान्यास्वि ति जनिशब्दव्युत्पतिः । ता यथा पुत्रादिभिः अभितः संवृता वर्तन्ते एवं अयणद्रव्यैः अध्वर्युप्रभृतिभिर्वा अभि संवृतः अभित आच्छन्नोयं सोमः । उ इति पूरणः । त्वा त्वां म सर्पतु प्रगच्छतु । ४ विचर्षण इति । विपूर्वात् कुष बिलेखन इत्यस्मात् ऋषेरादेश्च चः इति [उ०२, १०३] अनिप्रत्ययः आदेः ककारस्य चकारश्च ४ ॥ द्वितीया । तुविग्रीवो वृषोदरः सुबाहुरर्धसो मदं । इन्द्रो वृत्राणि जिघ्नते ॥ २ ॥ विऽग्रीवः । वपाऽऽदरः । सुऽबहुः। अन्धसः । मदें। इन्द्रः । वृत्राणि । जिन्नते ॥ २ ॥ अनया सोमस्य अतिशयितवीर्यसाधनाचम् अभिधीयते । अन्धसः सो मलक्षणस्य अन्नस्य भक्षणेन मदे सति इन्द्रो देवः तुविग्रीवः । तुवीति वहनाम । प्रभूतकन्धरः । भवतीति शेषः । ग्रीवाशब्दः स्कन्धस्योपल क्षकः । वृषवत् समृद्धस्कन्ध इत्यर्थः । तथा वपोदरः वपा यथा बि स्तीर्णा भवति एवं विस्तृतोदरश्च भवति । तथा सुबाहुः शोभनबाहुः पृथुभुजश्च भवति एवं समपानेन अभिवृद्धगात्रः सन् पश्चाद् वृत्रवद् आवरकान् शत्रुन जिलते हिनस्ति इत्येवं सोमस्य महिमा ॥ य हा तुविग्रीवत्वादयः इन्द्रस्य स्वाभाविका धर्माः । उक्तलक्षण इन्द्रः स स्वपि तेषु अन्धसो मदे सत्येव वृत्राणि जिघ्नते इति सोमप्रशंसा ॥ तृतीया । इन्द्र मोहेिं पुरस्वं विश्वस्येशांन ओजसा । वृत्राणि वृत्रहं जहि ॥ ३ ॥ इन्द्र। प्र। इहि। पुरः । त्वम् । विश्वस्य । ईशानः । ओजसा। वृत्राणि । वृत्रऽहन् । जहि ॥ ३ ॥