पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ०१. सू०५] ६२१ विंशं काण्डम् | ५६३ हे इन्द्र विश्वस्य स्थावरजङ्गमात्मकस्य सर्वस्य ईशानः । अनेन इन्द्र- स्य सर्वत्र प्रतिभटराहित्यम् उक्तं भवति । तादृशस्त्वं पुरः मेहि अस्मा- कं सेनायाः पुरतो गच्छ । गत्वा च हे वृत्रहन् वृत्रस्य एतन्नामकस्य असुरस्य हन्तः वृत्राणि अस्मदावरकान् शत्रून् जहि घातय । नोर्जः" इति जभावः ४ ॥ चतुर्थी ॥ दीर्घस्ते॑ अस्तङ्कुशो येना॒ वसु॑ प्र॒यच्छ॑सि । यज॑मानाय सुन्व॒ते ॥ ४ ॥ दी॒र्घः । ते॒ । अ॒स्तु । अ॒ङ्कुशः । येन॑ । वसु॑ । प्र॒ऽयच्छ॑सि । । यज॑मानाय । सुन्व॒ते ॥ ४ ॥ इन्द्र अङ्कुशः । अङ्कुशवन्नम्राङ्गुलिको हस्तः अङ्कुश इत्युच्यते । स दीर्घोस्तु । प्रदानविषये संकोचरहितोस्त्वित्यर्थः । तमेव विशिनष्टि । येनाङ्कुशेन सुन्वते सोमाभिषवं कुर्वते सोमलक्षणस्य हविषो दात्रे यज- मानाय वसु धनं प्रयच्छसि । स तादृशो दीर्घास्तु ॥ पञ्चमी ॥ अ॒यं त॑ इन्द्र॒ सोमो निपू॑तो अधि ब॒र्हिषि॑ । ए॒हम॒स्य द्रवा॒ पिब॑ ॥ ५ ॥ अ॒यम् । ते॒ । इ॒न्द्र॒ । सोम॑ः । निऽपू॑तः । अधि॑ । ब॒र्हिषि॑ । । 1 आ । इ॒ह । ईम । अस्य । द्रव॑ । पिब॑ ॥ ५ ॥ इन्द्र अधि बर्हिषि । अधिः सप्तम्यर्थानुवादी । आस्तीर्णे दर्भे नि- पूतः दशापवित्रेण नितरां शोधितः । उपलक्षणम् एतत् । ग्रहणश्रयणा- दिसंस्कारैः संस्कृतोयं सोमः ते त्वदर्थः । यस्मादेवं तस्माद् एहि आ- गच्छ । अस्मद्यज्ञं प्रतीति शेषः । आगमनविलम्बम् असहमान आह वेति । त्वरया आगच्छेत्यर्थः । आगत्य च ईम इदानीम् अस्य अमुं त्वदर्थे निपूतं सोमं पिब पानं कुरु ॥