पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३८ अथर्व संहिताभाष्ये सः | कुठेः । वि॒श्वभे॑षजः । साकम् । सोमे॑न । तिष्ठति । त॒क्मान॑म् । सर्व॑म् । ना॒शय॒ । सर्वा॑ः । च । यातुधा॒न्यः॑ ॥ ६ ॥ । इतः अस्माद् भूलोकात् तृतीयस्यां दिवि तृतीये द्युलोके देवसदनः । देवाः सीदन्ति निवसन्ति अत्रेति देवसदनः । देवानाम् आवासस्थान- भूतः अश्वत्थः यतोऽग्निरश्वात्मना तत्रावस्थितः अतोश्वत्थ इति नाम संप- नम् अस्येत्यश्वत्यस्तिष्ठति । तत्र अश्वत्थे अमृतस्य अमरणधर्मकस्य सोमस्य चक्षणम प्रकाशनं स्फुटीभावो विद्यते । अथ वा अश्वत्थशब्देन आ- दित्य उच्यते अमृतावस्थान श्रवणात् । “असौ वा आदित्यो देवमधु " इति श्रुतेः [ छा० उ०३. ६. ३] । ततोऽश्वत्थात् कुष्ठाख्यौषधिरजायत उ- त्पन्नोऽभूत् ॥ स कुष्ठ इत्यादि पूर्ववद् योज्यम् ॥ सप्तमी ॥ हिर॒ण्ययो॒ नौर॑चर॒द्धिर॑ण्यबन्धना दि॒वि । तत्रा॒मृत॑स्य॒ चक्ष॑णं॒ ततः॒ कुष्ठो अजायत । स कुष्ठ वि॒िश्वभे॑षजः साकं सोमे॑न तिष्ठति । नं नाशय सर्वोश्च यातुधा॒न्यः॑ः ॥ ७ ॥ हिर॒ण्ययीं । नौः । अचरत् । हिर॑ण्यऽबन्धना । दि॒वि । तत्र॑ । अ॒मृत॑स्य । चक्ष॑णम् । तत॑ः । कुष्ठेः । अजायत । सः । कुष्ठैः । वि॒श्वभे॑षजः । साकम् । सोमे॑न । तिष्ठति । त॒क्मान॑म् । सर्व॑म् । ना॒शय॒ । सर्वौः । च । यातुधान्यः ॥ ७ ॥ दिवि द्युलोके हिरण्ययी हिरण्यनिर्मिता तथा हिरण्यबन्धना हिरण्य- मयैः शङ्खपाशादिभिर्बद्धा नौः अचरत् सर्वदा चरति । अस्तु । ततः कुष्ठाख्यस्योषधस्य किम आयातम् इति तत्राह तत्रामृतस्येति । अनेन अस्यापि अमृतत्वसाधनधर्मः संहैव उक्तो भवति ॥ 1 S' संपन्नश्वत्थतिष्ठति 28 व्यचक्षणं. 3 S/ प्रकाशन'. 4 $' धर्मदेव for धर्मः सहैव-