पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०१. सू० ६. ] ६२२ विंशं काण्डम् | ५६५ ता रश्मयः शृङ्गशब्देन उच्यन्ते । तैर्वर्षतीति शृङ्गवृड् आदित्यः । तस्य न पातयिता दिवि स्थापयिता इन्द्रः शृङ्गवृषो नपाद् इत्युच्यते । तादृश इन्द्र तव यः प्रसिद्धः [मणपात्] कुण्डपाय्यः कुण्डैः पातव्यः सोमो य- स्मिन् ऋतौ स कुण्डपाय्यः ऋतुरस्ति । " ऋतौ कुण्डपाय्यसंचाय्यौ " अस्मिन् बहुसोमवति ऋतौ त्वं मनो नि दधे धारयसि सर्वतः स्थापयसि । ४ दधातेर्लिटि " इरयो रे” इति रेभावः ४ ॥ इति पिबतेः क्यप्प्रत्ययान्तत्वेन निपातितः ४ । [ इति ] पञ्चमं सूक्तम् ॥ " इन्द्र त्वा वृषभं वयम्" इति नंवर्चस्य सूक्तस्य प्रातः सवनशस्त्रे वि- नियोग उक्तः ॥ इन्द्र॑ तत्र प्रथमा ॥ वृष॒भं व॒यं सु॒ते सोमे हवामहे । स पा॑हि॒ मध्वो अन्ध॑सः ॥ १ ॥ इन्द्र॑ । त्वा॒ । वृष॒भम् । व॒यम् । सु॒ते । सोमे॑ । ह॒वामहे॒ । स । पा॒हि॒ । मध्वः॑ । अन्ध॑सः ॥ १ ॥ । व्याख्यातेयम् अनुवाकादौ ॥ द्वितीया ॥ इन्द्र॑ ऋतुविदं सुतं सोमं हर्य पुरुष्टुत । पिबा वृ॑षस्व॒ तातृ॑पिम् ॥ २ ॥ इन्द्र॑ । तुऽविद॑म् । सु॒तम् । सोम॑म् । ह॒र्य॒ । पु॒रु॒ऽस्तु॒त॒ । पिब॑ । आ । वृष॒स्व॒ । ततृ॑पिम् ॥ २ ॥ हे पुरुष्टुत पुरुभिर्बहुभिर्यजमानैः स्तुत बहुप्रकारं स्तुत वा हे इन्द्र ऋतुविदम् ऋतोर्यागस्य लम्भकं निष्पादकं सुतम् अभिषवादिना संस्कृतम् इमं सोमं हर्य कामय । ४ हर्य गतिकान्त्योः इत्यस्य लोटि रूपम् । 1 S' तय for त्वं 2 The Sarranukramani begins this hymn will इन्द्र ऋतुविदं (2) instead of with इन्द्र त्वा वृषभं वयं, and makes it and the preceding hyum con-i-4 of eigut mantras each, being supported in this by PP 3 Cr.