पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६६ अथर्व संहिताभाष्ये निघातः । fua पानं कुरु । तदेव विशिनष्टि । आ वृषस्व जठरे सिश्च । यथा जठरकुहरस्य अत्यन्तं सर्वतः पूर्तिर्भवति तथा कुर्वित्यर्थः । कामयित्वा च ततृपिम् तर्पकं प्रीणयितारम् इमं सोमं ततृ- पिम् । तृप प्रीणने इत्यस्मात् "छन्दसि सदादिभ्यो दर्शनात्” इति किन् । तस्य लिहावाद् द्विर्वचनादि । संहितायाम् “ अन्येषामपि दृश्यते " इ- त्यभ्यासस्य दीर्घः । नित्त्वाद् आद्युदात्तः ४ ॥ तृतीया ॥ इन्द्र॒ मनो॑ धि॒तावा॑नं य॒ज्ञं विश्वे॑भिर्दे॒वेभि॑ः । तिर स्तंवान विश्पते ॥ ३ ॥ इन्द्र॑ । । नः॒ । धि॒ऽवा॑नम् । य॒ज्ञम् । विश्वे॑भिः । दे॒वेभिः॑ । तिर । स्तवान । विश्पते ॥ ३ ॥ हे स्तवान । कर्मणि कर्तृप्रत्ययः ४ । स्तूयमान हे विश्पते विशो देवविशो मरुतः तेषां स्वामिन् । यद्वा विशां प्रजानां सर्वासां पते हे इन्द्र नः अस्माकं धितावानम् धितं धानं तद्वन्तं सोमस्य नि- धानवन्तम् । ग्रहादिभिर्गृहीतसोमम् इत्यर्थः । इति मत्वर्थीयो वनिप् ४ । "छन्दसीवनिपौ०' " उक्तलक्षणं यज्ञं विश्वेभिः सर्वैर्यष्टव्यैः दे- वेभिः देवैः सह म तिर वर्धय । हविः स्वीकारेणेति शेषः । त- रतेर्व्यत्ययेन शः । प्रत्ययस्वरः । प्र ण इति । " उपसर्गाद् बहुलम् " इति संहितायां णत्वम् ४ ॥ इन्द्र चतुर्थी ॥ सोमः सुता इ॒मे तव॒ प्रय॑न्ति सत्पते । क्षय॑ च॒न्द्रास॒ इन्द॑वः ॥ ४ ॥ इन्द्र॑ । सोमा॑ः । सु॒ताः । इ॒मे । तव॑ । प्र । य॒न्ति । स॒त्ऽपते । क्षय॑म् । च॒न्द्राः । इन्द॑वः ॥ ४ ॥ हे सत्यते सतां यजमानानां पालक इन्द्र सुताः अभिषुताः चन्द्रासः