पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०१. सू० ६. ] ६२२ विंशं काण्डम् | ५६७ चन्द्रा आह्लादकारिण इन्दवः किन्ना रसात्मका इमे हूयमानाः सोमाः तव क्षयम् । क्षियन्ति निवसन्ति अत्रेति क्षयो निवासस्थानम् । तव ज- ठरम इत्यर्थः । यन्ति गच्छन्ति । "क्षयो निवासे " इति आद्युदात्तत्वम् । म ४ इन्दव इति । उन्देरिवादेः [उ०१.१२] इति उप्रत्ययः । निदित्यनुवृत्तेराद्युदात्तः ४ ॥ पञ्चमी ॥ धि॒ष्वा ज॒ठरे॑ सु॒तं सोम॑मिन्द्र॒ वरे॑ण्यम् । तर्क द्यु॒क्षास॒ इन्द॑वः ॥ ५ ॥ द॒धि॒ष्व । ज॒ठरे॑ । सु॒तम् । सोम॑म् । इ॒न्द्र॒ । वरे॑ण्यम् । तव॑ । द्यु॒क्षास॑ः । इन्द॑वः ॥ ५ ॥ ' हे इन्द्र वरेण्यम् वरणीयं स्पृहणीयं सुतम अस्माभिहूयमानं जठरे दधिष्व धारय । " अभिषुतम् इमं सोमम् & दधातेर्लोटि रूपम् । 'आगमा अनुदात्ताः" इति इटोनुदात्तत्वात् प्रत्ययस्वरः ४ । सो- मानाम् इन्द्रस्य असाधारणं स्वत्वम् आह । द्युक्षासः दीप्तिमन्तो दीप्ति- निवासस्थानभूता इन्दवः सोमाः तव । असाधारणस्वभूता इति शेषः ॥ ॥ गिर्वणः पा॒हि न॑ः सु॒तं मधु॑र्धारा॑भिरज्यसे । इन्द्र॒ त्वदा॑त॒मिद्यः ॥ ६ ॥ गिर्वणः । पा॒हि । न॒ः । सु॒तम् । मधः । धारा॑भिः । अज्यसे । । । इन्द्रं । त्वादतम् । इत् । यर्शः ॥ ६ ॥ । । हे गिर्वणः गीर्भिर्वननीय संभजनीय इन्द्र ।

  • वन षण संभक्तौ

इत्यस्माद् असुन । गिर उपधाया दीर्घाभावश्छान्दसः । " आमन्त्रितस्य च" इति षाष्ठिकम आद्युदात्तत्वम् । नः अस्माकं संबन्धिनं सु- तम् अभिषुतं सोमं पाहि पिब । अहूयमानस्य कथं पानप्रसक्तिरित्य- 1S' अधारणस्वत्वम् for असाधारणं स्वत्वम्.