पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०१. सू० ७.] ६२३ विंशं काण्डम् । अष्टमी ॥ ५६९ अर्वावतो॑ न॒ आ ग॑हि परा॒वत॑श्च वृत्रहन् । इ॒मा जु॑षस्व नो॒ गिर॑ः ॥ ४ ॥ अ॒र्वाऽवत॑ः । नः॒ः । आ । ग॒हि । पराऽवत॑ः । च । वृ॒त्रऽन् । इ॒माः । जुषस्व॒ । नः॒ः । गिरेः ॥ ४ ॥ हे वृत्रहन् वृत्रस्य हन्तरिन्द्र नः अस्मान् यजमानान् अर्वावत: अ- र्वाचीनाद् अन्तिकाद् देशाद् आ गहि आगच्छ । तथा परावतः दू- रदेशाश्च नः आ गहि आगच्छ । “उपसर्गाच्छन्दसि धात्वर्थे " इति वतिप्रत्ययः । प्रत्ययस्वरः । आगत्य च नः अस्माकम् [इ- मा] गिरः स्तुतिरूपा वाचो जुषस्व सेवस्व ॥ नवमी ॥ यद॑न्त॒रा प॑रा॒वत॑मर्वा॒वत॑ च हूयसे । इन्द्रे॒ह तत॒ आ ग॑हि ॥ ९ ॥ यत् । अ॒न्त॒रा । प॒रा॒ऽवत॑म् । अ॒र्वा॒ऽवत॑म् । च॒ । हू॒यते॑ । इन्द्र॑ । इ॒ह । तत॑ः । आ । गहि ॥ ९ ॥ हे इन्द्र परावतम् परावद् दूरस्थानं तथा अर्वावतं च संनिहितस्थानं च यत् यस्मिन् अन्तरा तयोरन्तरालदेशे । उभयत्र "अन्तिरा]- न्तरेणयुक्ते " इति द्वितीया । तत्र हूयसे सम्यग् इज्यसे ततः त- स्माद्देशात् परावतः अर्वावतश्च सकाशाद् इह अस्मद्यागदेशं प्रति आ गहि आगच्छ ॥ " [ इति ] षष्ठं सूक्तम् ॥ “उद्वेदभि” इति तृचस्य ब्राह्मणाच्छंसिनः प्रातः सवने विनियोग उक्तः ॥ तत्र प्रथमा ॥ उद्वेद॒भि श्रुताम॑घं वृष॒भं नर्योपसम् । ७२