पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

06h अथर्वसंहिताभाष्ये अस्ता॑रमेष सूर्य ॥ १॥ । उत् । घृ । इत् । अ॒भि । श्रुतऽम॑घम् । वृष॒भम् । नये॑ऽअपसम् । अस्ता॑रम् । ए॒ष । सूर्य॒ ॥ १ ॥ । हे सूर्य त्वं श्रुतामघम् । मघम् इति धननाम । श्रुतं विख्यातं स्तो- नृभ्यो यष्टृभ्यश्च दातव्यं धनं यस्यासौ श्रुतमघः तम् । सत्यपि श्रुतध- नवे दानाभावे प्रयोजनाभावाद् उच्यते वृषभम् इति । अभिमतस्य धनस्य वर्षकम् इत्यर्थः । तथा नर्यापसम् नरेभ्यो हितं नर्यम अपः कर्म यस्यासौ नर्यापाः तम् । " तस्मै हितम्" इति यत् । ब- हुव्रीहौ पूर्वपदप्रकृतिस्वरः । स्वसेवकानाम् इष्टप्राप्त्यनिष्टपरिहारवि- षयकर्मवन्तम् इत्यर्थः । तथा अस्तारम् शत्रूणां निरसितारम् । सु क्षेपणे । तृनि “रधादिभ्यश्च" इति इड्डिकल्पः ४ । 2 अ- एवंमहा- नुभावम् इन्द्रम् अभिलक्ष्य उद्धेदेषि । घेति प्रसिद्धौ । उदेषि ऊर्ध्वं गच्छसि उदयसि । सूर्योदयाभावे इन्द्रस्य सोमलक्षणहविः प्रदानासंभवाद् उक्तलक्षणम् इन्द्रं प्रति उदेषीत्युच्यते ॥ नव द्वितीया ॥ यो न॑व॒तं पुरो॑ वि॒भेद॑ वा॒ह्वोजसा । अहि॑ च वृत्र॒हाव॑धीत् ॥ २॥ नव॑ । यः । नव॒तिम् । पुरः॑ । वि॒भेद॑ । बा॒हुऽओजसा । अहि॑म् । च॒ । वृ॒त्र॒ऽहा । अ॒वधीत् ॥ २ ॥ य इन्द्रः शम्बरस्यासुरस्य नव नवतिं च पुरः नवोत्तरनवतिसंख्याका मायानिर्मिताः पुरीः । " पङ्किविंशति" इत्यादिना तिंप्रत्ययान्तो निपातितः । बाह्वोजसा बाहुबलेन अन्यनैरपेक्ष्येणैव बिभेद भिन्न- वान् नाशितवान् । तथा च मन्त्रान्तरम् । “दिवोदासाय नवतिं च नवेन्द्रः पुरो व्यैरच्छम्बरस्य " इति [ ऋ०२.१९.६] । किं च वृत्रहा । वृत्रशब्दः शत्रुसामान्यवचनः । 1 S' अभिलक्ष्य 28 क्ति'. ८८ " वृत्राणि वृत्रहं जहि " [२०. ५.३]