पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०१.०७.] ६२३ विंशं काण्डम् । ५७१ अ- “इन्द्रो वृत्राणि जिघ्नते” [२०.५.२] इत्यादौ तथा दर्शनात् । वृ- त्राणां शत्रूणां हन्ता इन्द्रः अहिं च । अयति गच्छतीत्यहिमेंघः । हिरयनाद् एत्यन्तरिक्षे इति निरुक्तम् [ नि०२,१७]४ । अथ वा आगत्य हन्तीत्यहिर्वृत्रः । ४ हन हिंसागत्योः । आङि श्रहनिभ्यां ह्रस्वश्च [उ०४. १३७] इति आङ्पूर्वाद् इञ् प्रत्ययः । वातेर्डित [ उ० ४. १३३] इत्यनुवर्तनात् डिद्वद्भावः आङो ह्रस्वश्च । जित्वाद् आद्युदा- तः X । तम् अवधीत् हतवान् । स न इत्युत्तरत्र संबन्धः ॥ तृतीया ॥ स न॒ इन्द्र॑ शि॒वः सखाश्वा॑व॒द् गोम॒द् यव॑मत् । उ॒रुधा॑रे॒व दोहते ॥ ३ ॥ सः । नः । इन्द्र॑ः । शि॒िवः । सखा॑ । अव॑ऽवत् । गोम॑त् । यव॑ऽमत् । उ॒रुधा॑रा॒ऽइव । दे॒ह॒ते ॥ ३ ॥ स पूर्वोक्तगुणविशिष्ट इन्द्रः नः अस्माकं शिवः सुखकारी सखा मि- भूतः । तादृश इन्द्रः अश्वावत् अश्वैर्बहुभिरुपेतं गोमत् बह्वीभिर्गोभि- रुपेतं यवमत् । यवो धान्यविशेषः । बहुभिर्यवैर्युक्तं धनम् उरुधारेव प्र- भूतधारायुक्ता बहुक्षीरा गौरिव दोहते सा यथा सर्वेषां तर्पणसमर्थं बहु क्षीरं दुग्धे एवं सर्वजनतृप्तिसाधनम् अश्वाद्युपेतं धनं दुग्धाम् प्रयच्छ- तु । * बाहुलकात् शपो लुगभावः । लेटि वा अडागमः ४ ॥ 66 [ इति ] सप्तमं सूक्तम् ॥ 'इन्द्र ऋतुविदम्" इत्येषा आद्या ऋक् ब्राह्मणाच्छंसिनः शस्त्रया- ज्या । उक्तं हि । “ उक्थसंपदः परिधानीयोत्तरा याज्या" इति [ वै० ३.११] ॥ 66 'एवा पाहि" इत्याद्यास्तिस्र ऋचस्तेषामेव ब्राह्मणाच्छंस्यादीनां त्र- णाम ऋत्विजां क्रमेण माध्यंदिनसवनिक्यः प्रस्थितयाज्याः । तथा च वेतानं सूत्रम् । “ एवा पाहीति प्रस्थितयाज्या" इति [ वै० ३.११]