पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विंशं काण्डम् | ५७३ [अ०१. सू° ४.] ६२४ सि" इति हेर्धिभावः ४ । न केवलं श्रवणमेव उत अपि च गी- र्भिः अस्मदीयाभिः स्तुतिवाग्भिः ववृधस्व वर्धस्व अभिवृद्धो भव । अत- स्तव यागार्थ सूर्यम् सर्वकर्मणां प्रेरकं देवम आविष्कृणुहि प्रकाशितं कुरु । यद्वा अस्माकं व्यवहाराय बहुकालं सूर्यम आविष्कृणु । तत इषः अन्नानि अस्मदुपभोगसाधनानि पीपिहि प्यायय समर्धय । किं च शत्रून शातयितृन अस्मद्विरोधिनो द्वेष्यान् जहि घातय । हे इन्द्र गाश्च पणिभिरपहृता अभि तृन्धि प्रयच्छ । 8 ववृधस्वेति । वृधेर्बहुलग्र- हणाच्छपः श्रुः । “ व्यत्ययो बहुलम्" इति वचनात् शप् प्रत्ययः । विकरणस्वरेण मध्योदात्तः । तृन्धि । उ- नृदिर् हिंसानादरयोः ४ ॥ तृतीया ॥ इत्यत्र 66 'क्वचिद् विकरणं च " अ॒र्वाङेहि॒ सोम॑कामं त्वाहुर॒र्य॑ सु॒तस्तस्य॑ पिवा॒ मदा॑य । उ॒रु॒व्यवा॑ ज॒ठर॒ आ वृ॑षस्व पि॒तेव॑ नः शृणुहि हू॒यमा॑नः ॥ २ ॥ अ॒र्वाङ् । आ । इ॒हि॒ । सोम॑ऽकामम् । त्वा॒ । आ॒हुः । अ॒यम् । सुतः । तस्य॑ । पिब । मदाय | उ॒रु॒ऽव्यचा॑ः । ज॒ठरे॑ । आ । वृ॒षस्व॒ । पि॒ताऽइ॑व । नः । शृणु । हू॒यमा॑नः ॥ २ ॥ हे इन्द्र अर्वाङ् अस्मदभिमुखः सन् एहि आगच्छ । किमर्थम् आ- गमनम् इति चेद् उच्यते सोमकामं त्वाहुरिति । यतस्त्वा त्वां सोमका- मम सोमं कामयमानं सोमविषये अत्यन्ताभिलषितवन्तम् आहुः अभि- ज्ञाः कथयन्ति । " सोमकामं हि ते मनः " [इति] हि मन्त्रान्तरम् [शृ°४,६१,२] । “इमं जम्भसुतं पिब" इति [ऋ° ४.९१.२] मन्त्रे जम्भनिष्पीडितस्यापि सोमस्य पानाभिधानाद् इन्द्रस्य सोमे अतिशयप्री- तिसद्भाव उक्तो भवति । यस्मादेवं तस्माद् अयं सोमः सुतः अभिषुतः । तस्य । तं सोमम् इत्यर्थः । "क्रियाग्रहणं कर्तव्यम्" इति क- र्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । fue पानं कुरु । कस्मै प्रयो-