पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७४ अथर्वसंहिताभाष्ये जनायेति उच्यते । मदाय । तस्य पिबेति सोमपानमात्रम् अभिहितम् । इदानीं कुक्षिपरिपूर्तिपर्यन्तं पानम् अभिधीयते उरुव्यचा इत्यादिना । उरु प्रभूतं व्यचनं कुक्षिबाहुल्यं यस्य स उरुव्यचाः । ४ व्यचेरौणादिकः अस्प्रित्ययः । " व्यचेः कुटादिवम् अनसीति वक्तव्यम् " इति व- चनात् ङित्त्वाभावेन संप्रसारणाभावः । " परादिश्छन्दसि बहुलम्” इति उत्तरपदाद्युदात्तत्वम् । तादृशस्त्वं जठरे उदरे अतिविस्तीर्णे आ वृषस्व आसिञ्च सर्वतः पूरय । तदर्थम् आहूयमानस्त्वं पितेव यथा पिता पुत्रस्य वचनं शृणोति एवं नः अस्माकम आह्वानं शृणुहि शृणु । तश्च प्रत्ययाच्छन्दसि वा वचनम् " इति हेर्लुगभावः ४ ॥ चतुर्थी ॥ आर्पूर्णो अस्य कलशः स्वाहा॒ सेते॑व॒ कोशै सिसिचे पिब॑ध्यै । " उ- समु॑ प्रि॒या आव॑वृ॒त्र॒न् मदा॑य॒ मदा॑क्षि॒णिद॒भि सोमा॑स॒ इन्द्र॑म् ॥ ३ ॥ आऽपू॒र्णः । अ॒स्य॒ । लः । स्वाहा॑ । सेक्तऽइव । कोश॑म् । ससचे । पिब॑ध्यै । सम् । कुं इति॑ । प्रि॒याः । आ । अववृत्र॒न् । मदा॑य । प्र॒ऽक्षिणित् । अभि । सोमा॑सः । इन्द्र॑म् ॥ ३ ॥ ४ चतुर्थ्यर्थे षष्ठी । अस्य अस्मै इन्द्राय । तदर्थं कलशः द्रोणकलश आपूर्णः सोमरसेन सर्वतः पूर्ण आसीत् । तच्च पूरणं कि- मर्थम् इति चेद् उच्यते । स्वाहा स्वाहुतत्वाय । होमार्थम् इत्यर्थः । ततः सेव कोशम सेक्ता पूरक: पुमान् कोशम् हृतिं यथा सिञ्चति पूरयति उदकादिना एवं पिबध्यै इन्द्रस्य पानाय । ♛ पा पाने इत्यस्य तुम- ये शध्यैन् प्रत्ययः । शित्त्वात् पिबादेशः । नित्त्वाद् आद्युदासः ४ । सि- सिचे सिञ्चति अध्वर्युः सोमरसम् । सामर्थ्याद् ग्रहादिष्विति लभ्यते । ते च सिक्ताः प्रियाः हृद्याः स्वादवः सोमासः सोमाः मदाय इन्द्रस्य हर्षाय प्रदक्षिणित प्रादक्षिण्येन इन्द्रं सम अभ्याववृत्रन्, सम्यग् अभिमुखा 1 उरुव्यत्रेत्यादिना.