पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०१. सू०९] ६२५ वर्तन्ते समभिव्याप्नुवन्ति । विंशं काण्डम् | ५७५ वृतु वर्तने । लङि " बहुलं छन्दसि " इति शुः । व्यत्ययेन परस्मैपदम् । “बहुलं छन्दसि ” इति झेरुडागमः ४ ॥ [ इति ] अष्टमं सूक्तम् ॥ " ,, "तं वो दस्ममृतीषहम्" इत्यादिचत्वारि सूक्तानि माध्यंदिनसवने ब्राह्मणाच्छंसिनः शस्त्रे विनियुक्तानि । चतुर्घसूक्तस्यान्तिमा “ऋजीषी वज्री ” [२०, १२.७ ] इत्येषा ऋक् शस्त्रयाज्या । " तं वो दस्ममृतीष- हम " [१] " तत् ला यामि सुवीर्यम " [३] इति प्रगाथौ स्तोत्रियानुरू- पौ । “उदुत्ये मधुमत्तमा: ” [ २०, १०, १] इति सामप्रगा॑थः । “इन्द्रः पूर्भित् " [२०,११] इति सूक्तम उक्थमुखम " उदु ब्रह्माणि " [२०. १२] इति सूक्तं पर्याससंज्ञम । “एवेदिन्द्रम् " [ २०, १२.६] इति प- रिधानीया । एतत् सर्व वैताने सूत्रितम् । “तं वो दस्ममृतीषहं तत् वयामि सुवीर्यम्" इति [ वै० ३,१२] ॥ तत्र प्रथमा ॥ तं नो॑ द॒स्ममृ॑ती॒षसं॒ वसो॑र्म॑न्दा॒नमन्ध॑सः । अ॒भि व॒त्सं न स्वस॑रेषु धे॒नव॒ इन्द्र॑ गी॒र्भिर्नवामहे ॥ १ ॥ तम् । वः॑ । द॒स्मम् । ऋ॒ति॒ऽसह॑म् । वसः । म॒न्दा॒नम् | अन्ध॑सः । । अ॒भि । व॒त्सम् । न । स्वस॑रेषु । धे॒नव॑ः । इन्द्र॑म् । गीः ऽभिः । नवा- महे ॥१॥ हे यजमानाः वः युष्मदर्थं युष्मद्यागनिष्पत्त्यर्थं युष्मदभिमतफलार्थ वा तं प्रसिद्धम् इन्द्रम् अभिलक्ष्य गीर्भिः स्तुतिप्रकाशिकाभिर्वाग्भिः नवा- महे स्तुम इति संबन्धः । कीदृशम् इन्द्रम् । दस्मम् दर्शनीयम् । तत्तत्फलार्थिभिरवश्यं सेवनीयम इत्यर्थः । ऋतीषहम् । अर्तेर्ऋतिश "सहेः पृतनर्ताभ्यां च " इ- तथा वसोः वासकस्य अ- ब्दः । आर्तेरभिभवितारं नाशकम् । त्यत्र सहेरिति योगविभागात् षत्त्वम् । न्धसः अन्नस्य सोमलक्षणस्य । पानेनेति शेषः । मन्दानम् मन्दमानम् । स्तुतौ दृष्टान्तम् आह । वत्सं न स्वसरेषु धेनवः । स्वसरेषु स्वयं स- 18' सामप्रयागः 25 ° प्रकाशकाभि.