पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७६ अथर्व संहिताभाष्ये रन्तीति वा स्व: आदित्यः स एनानि सारयतीति वा स्वसराण्यहानि । तेषु आगच्छासु निर्गच्छत्सु वा । सायंप्रातः कालेष्वित्यर्थः । तेषु धेनवः प्रभूतेन पयसा प्रीणयित्र्यो गाव: अभिनवप्रसवा वा ता वत्सं न । यथा वत्सं स्तनप्रदानाय हम्भाशब्दम उच्चैर्बहुशः कुर्वन्ति तद्वत् ॥ द्वितीया ॥ द्यु॒क्षं सु॒दानुं तवि॑षीभि॒रावृ॑तं ग॒रं न पु॑रु॒भोज॑सम् । शु॒मन्तं॒ वाजे॑ श॒तिने॑ सह॒स्रिण॑ म॒क्षू गोम॑न्तमीमहे ॥ २॥ द्यु॒क्षम् । सु॒ऽदानु॑ । तवि॑षीभिः । आऽवृ॑तम् । वि॒रिम् । न । पुरुभो- ज॑सम् । शु॒ऽमन्त॑म् । वाज॑म् । श॒तन॑म् । स॒ह॒स्रिण॑म् म॒क्षु । गोम॑न्तम् । ईम- हे ॥ २ ॥ इत् । क्षम दीनं सुदानुम् शोभनदानं विशिष्टदानार्ह तविषीभिः बलैः आवृतम् आच्छन्नम् । बलप्रदम् इत्यर्थः । गिरिं न पुरुभोजसम् । पुरु इति बहुनाम । बहूनां प्रजानां भोगयोग्यं गिरिं न पर्वतमिव । यथा दुर्भिक्षे प्रजा जीवनाय बहुभिः कन्दमूलाद्यन्नैरुपेतं गिरिम् अर्थयन्ते त- उदधिः पर्वतो राजा दुर्भिक्षे नव वृत्तयः इति हि मन्त्र- वर्ण: [ नि० ६.५] 1 अयम वाजम ईमहे इत्यत्र दृष्टान्तः । त- था क्षुमन्तम । क्षु शब्दे । शब्दोपेतम् । स्तुतिमन्तम् इ- त्यर्थः । यो लोके बह्वन्नो भवति स शव्द्यत इति प्रसिद्धम । शतिनम शतयुक्तं शतसंख्यानां प्रजानां पोषकत्वेन तद्वन्तम् । एवं सहस्रिणम् इ- त्येतदपि योज्यम् । अपरिमितप्राणिपोषकम् इत्यर्थः । तथा गोमन्तम् बह्वीभिर्गोभिर्युक्तम् । एवम उक्तैर्विशेषणैर्विशिष्टं वाजम् अन्नं मक्षु शी- घम ईमहे याचामहे ॥ तृतीया ॥ तत्त्वा॑ यामि सु॒वीर्य॒ तद् ब्रह्म॑ पूर्वचित्तये । येना॒ यति॑भ्यो॒ भृग॑वे॒ धने॑ हि॒ते येन॒ प्रस्क॑ण्व॒सावि॑थ ॥ ३ ॥