पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०१. सू०९.] ६२५ विंशं काण्डम् । तत् । त्वा॒ । या॒मि॒ । सु॒ऽवीर्य॑म् । तत् । ब्रह्म॑ । पूर्वऽचि॑ित्तये । । 1 ५७७ येन॑ । यति॑ऽभ्यः । भृग॑वे । धने॑ हि॒ते । येन॑ । प्रस्क॑ण्वम् | आविथ ॥ ३ ॥ हे इन्द्र तत् वक्ष्यमाणलक्षणं सुवीर्यम् शोभनवीर्योपेतं ब्रह्म परिवृढम् अनं त्वां यामि याचे । ४ वर्णलोपश्छान्दसः । " तत् त्वा या- मीति विवर्णलोप इति हि यास्कः [नि०२.१]ष्ट । उक्तमेवार्थ पुनराह इतरेभ्यः पूर्वलाभाय । तत् उक्तलक्षणं ब्रह्म अन्नं पूर्वचित्तये पू- fuज्ञानाय । यामीति संबन्धः । तद् इत्युक्तम् । कीदृक् तद् इत्याह । येन ब्रह्मणा अन्नेन यतिभ्यः कर्मभ्यो निवृत्तेभ्यः सकाशाद् आहृत्य भू- गवे एतन्नामकाय महर्षये धने हिते अभिमते सति तं भृगुं प्रीणित- वान् असि । यथा येन सुवीर्येण अन्नेन यतिभ्यः नियतिमद्भ्यः कर्मसु नियतेभ्यः अन्येभ्यो महर्षिभ्यः तदर्थे धने हिते सति परितोषितवान् अ- सि । तथा भृगवे एतन्नामकाय महर्षये च । येन च धनेन प्रस्कण्वम् कण्वस्य पुत्रम् एतन्नामानम् ऋषिम आविथ ररक्षिथ ॥ चतुर्थी ॥ येना॑ समु॒द्रमसृ॑जो म॒हीर॒पस्तदि॑न्द्र॒ वृष्णि॑ ते॒ शव॑ः । स॒द्यः सो अ॑स्य॒ महि॒मा न सं॒नशे॒ यं क्षो॒णीर॑नु॒चक्र॒दे ॥ ४ ॥ येन॑ । समु॒द्रम् । असृ॑जः । म॒हीः । अ॒पः। तत् । इ॒न्द॒ । वृष्ण । ते॒ । शव॑ः । स॒द्यः । सः । अ॒स्य॒ । म॒हि॒मा । न । स॒मऽनर्शे । यम । क्षो॒णीः । अनुऽच्- ऋदे ॥ ४ ॥ हे इन्द्र येन शवसा बलेन समुद्रम् । समभिद्रवन्त्येनम आप इति स- मुद्रः उदधिः । तं प्रति महीः महती: अतिप्रभूता अपः समुद्रपूर्तिपर्य- तानि उदकानि असृजः सृष्ट्यादौ सृष्टवान् असि । तत् तादृक् ते शवः बलं वृष्णि वर्षकं सर्वेषाम् अभिमतप्रदातृ । भवतीति शेषः ॥ अथ प- रोक्षम् आह । अस्य इन्द्रस्य [स] महिमा बहुभिरुदकैः समुद्रपूर्व्यादि- लक्षणः सद्यः तदानीमेव न संनशे परैर्न सम्यग् व्याप्तुम अर्हः । म- हिम्न आनन्त्याद् अनन्यसाधारणत्वाच्चेति भावः । ४ नशतिर्व्याप्तिक ७३