पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७८ अथर्वसंहिताभाष्ये र्मा । कृत्यार्थे केन प्रत्ययः ष्४ । यं महिमानं क्षोणीः । क्षोणी पृ- थिवी । तेन तन्निष्ठः प्राणिनिकरो लक्ष्यते । अनुचऋदे अनुन्दति । उद्घोषयतीत्यर्थः ॥ [ इति ] नवमं सूक्तम् ॥ [" उदु त्ये” इति सूक्तस्य ] विनियोगः पूर्वसूक्तेन सह उक्तः ॥ उदु तत्र प्रथमा || त्ये मधु॑मत्तमा गिर स्तोमांस ईरते । सत्राजितो धन॒सा अक्षि॑तोतयो वाज॒यन्तो॒ रथा॑ इव ॥ १ ॥ उत् । ॐ इति॑ । त्ये । मधु॑मत्तमाः । गिरेः । स्तोमा॑सः । ईरते । स॒त्राऽजित॑ः । ध॒न॒ऽसाः । अक्षि॑तऽऊतयः । वा॒ज॒ऽयन्त॑ः । रथा॑ऽइव ॥ १ ॥ त्ये । तच्छब्दसमानार्थस्त्यच्छब्दः । ते वक्ष्यमाणाः स्तोमासः स्तोमाः त्रिवृदादयः । प्रगीतमन्त्रसाध्यानि स्तोत्राणीत्यर्थः । ते विशेष्यन्ते । म- धुमत्तमाः अतिशयेन मधुराः वस्तुवद् वाच्यपि माधुर्यम् अस्त्येव । ते उदीर प्रादुर्भवन्ति । तथा गिरः । अत्रापि मधुमत्तमा इत्येतत् संब- ध्यते । अतिशयेन मधुरा गिरः शस्त्राश्रयभूता वाचः अमगीतमन्त्रसा ध्यान्यपि शस्त्राणि उदीरते । ते विशेष्यन्ते । सत्राजितः सहैव एक- वारमेव जयन्ति शत्रून इति सत्राजितः । तथा धनसाः धनानां संभ- तारो धनप्रदाः । " जनसनखन क्रमगमो विट्” इति विट् । " वि- नोरनुनासिकस्यात्" इति आत्त्तम ४ । एवम् अक्षितोतयः । क्षितं क्षयः । न विद्यते क्षितं यासां ता अक्षिता: । अक्षिता ऊतयो येषां ते तथोक्ताः । सर्वदा रक्षका इत्यर्थः । ४" निष्ठायाम् अण्यदर्थे " इति पर्युदासाद् दीर्घाभावः । अत एव " क्षियो दीर्घात् " इति निष्ठानावाभा- ४ क्यचि "न वः ४ । वाजयन्तः वाजम् अन्नम् इच्छन्तः । च्छन्दस्यपुत्रस्य " इति इत्वदीर्घयोः प्रतिषेधः ४ | तत्र दृष्टान्तः । रथा sa | अत्र सत्राजितइत्यादिविशेषणानि दृष्टान्तेपि योजयितव्यानि । य- 1 S' शस्त्राण्यपि उदीरिते.