पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १ सू०११. ] ६२७ विंशं काण्डम् | १७९ थोक्तलक्षणा रथा यथा रथस्वामिन: प्रयोजनाय उदीरते एवम् इन्द्रस्य परितोषाय स्तोमा उदीरंत इत्यर्थः ॥ द्वितीया ॥ कण्वा॑ इव॒ भृग॑व॒ सूर्यो॑ इव॒ विश्व॒मिद् धी॒तमा॑नशुः । • । इन्द्रं॒ स्तोमे॑भिर्म॒हय॑न्त आ॒यवः॑ प्रि॒यमे॑धासो अस्वरन् ॥ २॥ कण्वा॑ऽइव । भृग॑वः । सूर्योऽइव । विश्व॑म् । इत् । धीतम । आनशुः । इन्द्र॑म् । स्तोमे॑भिः । म॒हय॑न्तः । आ॒यवः॑ । प्रि॒यमे॑धासः । अ॒स्वरन् ॥ २ ॥ कण्वा इव कण्वगोत्रोत्पन्ना महर्षयोपि कण्वाः । ते यथा विश्वम् व्या- मैं लोकत्रयस्वामिनम् । इत् शब्दः अव्यवहितेन इन्द्रम् इत्यनेन संबध्यते । धीतम् ध्यातं तत्तत्फलार्थिभिः सर्वैर्ध्यानोपलक्षितेन स्तोत्रेण विषयीकृतम् इन्द्रमित इन्द्रमेव आनशुः स्तोत्रशस्त्रादिभिः प्राप्ताः । भृगवः । केव- लोपि भृगुशब्दः इवेन विशिष्टार्थः परिगृह्यते । भृगव इव ते यथा उ- तलक्षणम् इन्द्रम आनशुः । सूर्या इव सूर्या धात्रर्यमादयः । ते यथा स्वनियन्तारम् इन्द्रम् आनशुः । एवम उक्तगुणकम इन्द्रं प्रियमेधासः । येषां मेधाः प्रियभूतास्ते प्रियमेधाः । एतन्नामान: आयवः मनुष्या मह- र्षयः महयन्तः पूजयन्तः स्तोमेभिः स्तोत्रैः अस्वरन् शब्दम् अकुर्वन् । अस्तुवन्नित्यर्थः ॥ [इति] दशमं सूक्तम् ॥ “इन्द्रः पूर्भित" इति सूक्तस्य उक्तो विनियोगः ॥ तत्र प्रथमा । इन्द्र॑ पू॒र्भिदाति॑र॒द् दास॑म॒र्कैर्वि॒दद्व॑सु॒र्दय॑मानो॒ वि शत्रून् । ब्रह्म॑जूतस्त॒न्वा वावृधानो भूरि॑दात्र॒ आपृ॑ण॒द् रोद॑सी उ॒भे ॥ १ ॥ इन्द्र॑ः । पूःऽभित् । आ । अ॒तिरत् । दास॑म् । अ॒र्कैः । वि॒दऽव॑सुः । दय॑- मानः । वि । शत्रून् । 1 S' उदीरित इत्यर्थः 28/ व्याप्तलो.