पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४० अपर्वसंहिताभाष्ये ब्रह्म॑ऽजूतः । त॒न्वा॒ । व॒वृधा॒नः । भूरि॑ऽदात्रः । आ । अपृ॒ण॒त् । रोद॑सी इति॑ । उ॒भे ॥ १ ॥ । । इन्द्रो देवः पूर्भित शत्रुपुरां भेत्ता दासम् उपक्षपयितारं शत्रुम् अ- कैः अर्चनीयैः ' स्ववीर्यैः आतिरत् सर्वतो हिंसितवान् । सूर्यात्मना वा अर्कैः अर्चनीयै रश्मिभिः दासम् तमसः क्षपयितारं वासरम आतिरत् सर्वt affair | प्रकाशितवान् इत्यर्थः । किं कुर्वन् । विदवसुः ल- arधनः । शत्रुधनापहर्तेत्यर्थः । शत्रून वृत्रादीन् वि दयमानः विशेषेण हिंसन् । तथा च याकः । विदद्वसुर्दयमानो वि शत्रून इति हिं- साकर्मा इति [ नि० ४.१७]४ । ब्रह्मजूत ब्रह्मणा प्रभूतेन स्तोत्रे- ण अभिवृद्धः तन्वा शरीरेण ववृधानः वर्धमानः । वृधु - वर्धने । कानचि रूपम् । संहितायाम् अभ्यासस्य " अन्येषामपि दृश्यते " इति दीर्घः ३ । भूरिदात्रः । दात्यनेन खण्डयति शत्रून इति दात्रम आ- युधम् । प्रभूतायुध इत्यर्थः । यद्वा दीयत इति दात्रं धनम् । बहुध- नः । उक्तगुणविशिष्ट इन्द्रः उभे रोदसी उभे द्यावापृथिव्यौ आपृणत् । व्याप्नोद् इत्यर्थः ॥ द्वितीया ॥ म॒खस्य॑ ते तवि॒षस्य॒ म जूतिमिय॑सि॒ वाच॑म॒मृता॑य॒ भूष॑न् । इन्द्र॑ क्षिती॒नाम॑सि॒ मानु॑षीणां वि॒शां दैवी॑नामु॒त पू॑र्व॒यावा॑ ॥ २ ॥ म॒खस्य॑ । ते॒ । त॒वि॒षस्य॑ । प्र । जूतिम् । इयर्मि । वाच॑म् । अ॒मृता॑य । भूषन । इन्द्र॑ । शि॑ती॒नाम् । अ॒सि॒ । मानु॑षीणाम् । वि॒शाम् । दैवी॑नाम् । उ- त । पूर्व॒ऽयावा॑ ॥ २ ॥ हे इन्द्र मखस्य महनीयस्य मखात्मकस्य वा तविषस्य । तवः बलम् । अतिशय बलस्य ते तब जूतिम प्रेरयित्रीं वर्धयित्रीं वा वाचम स्तुति- लक्षणां प्रेयमि प्रेरयामि । ४ इयर्तिर्जुहोत्यादिः । 'अर्तिपिपत्यश्च " "