पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०१, सू० ११.] ६२७ विंशं काण्डम् | ५७१ " इति अभ्यासस्य इत्त्वम् । “ अभ्यासस्यासवर्णे ” इति इयङ् आदेशः । पादादित्वाद् अनिघातः । " अभ्यस्तानाम् आदिः” इत्याद्युदात्तः ४ । कि- मर्थम् । अमृताय अमृतत्वाय अन्नाय वा । किं कुर्वन् । भूषन वाम अलंकुर्वन् । g भूष अलंकारे । शतृप्रत्ययः । हे इन्द्र यस्माद् मानुषीणाम मनुषः संबन्धिनीनां क्षितीनाम प्रजानाम् उत अपि च दै- वीनाम् देवसंबन्धिनीनां विशाम् प्रजानां पूर्वयावा पुरोगन्तासि । स- र्वेषां प्राणिनां श्रेष्ठो भवसीत्यर्थः । तस्माद् वाचम् इयमति संबन्धः ॥ तृतीया ॥ इन्द्रो॑ वृ॒त्रम॑वृणी॒च्छर्ध॑नीति॒ प्र मा॒यिना॑ममिना॒द् वर्ये॑णीतिः । अन् व्य॑समु॒शध॒ग् वने॑ष्वाविर्धेना॑ अकृ॒णोद् रा॒म्याणा॑म् ॥ ३ ॥ इन्द्र॑ः । वृ॒त्रम् । अ॒वृण॒त् । शर्धेऽनीति: । म । मा॒यिना॑म् । अमिनात् । व- नीतिः । अह॑न् । विऽअ॑सम् । उ॒शध॑क् । वने॑षु । आ॒विः । धेना॑ । आ॒कृ॒णो॒त् । रा- म्यार्णा ॥ ३ ॥ इन्द्रो देवः शर्धनीतिः । शर्धः हिंसकं बलम् । अत्र अका- रान्तत्वं छान्दसम् ४ । तस्य नीतिर्नयनं प्रापणं यस्य स तथोक्तः । शत्रु प्रति स्वबलमापक इत्यर्थः । तादृशः सन् वृत्रम् अपावरकं मेघं सर्वतो व्याभुवानम् असुरम् । ४ वृत्रो मेघ इति नैरुक्तास्वाट्रोसुर इत्यैतिहासिका इति निरुक्तम् [ नि०२. १६] ४ । तम अवृणोत् अ- रुत् । तथा स एव इन्द्रः वर्षनीतिः । वर्ष इति रूपनाम । अत्र अकारान्तः । तस्य नेता । युद्धे शत्रु प्रति स्वशरीरप्रापक इत्यर्थः । अ- नेन तस्य गर्तम् अयत्नम् उक्तं भवति । तादृशः सन् मायिनाम् माया- वताम् असुराणाम् । अत्र सामर्थ्याद् बलानीति गम्यते । यद्वा । तीयार्थे षष्ठी । 1 $/ गतमयत्वमुक्तं for गतम् अयत्नमुक्त. X हि- मायिन इत्यर्थः । प्रामिनात् प्रावधीत् । ४ मी