पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५8२ ८८ अथर्वसंहिताभाष्ये इन्द्रो वृत्रम अवृणोत् इत्युक्तमेवार्थं विस्पष्टम् आह । उशधक् कामयित्वा शत्रुदाहकः । या उशतां युद्धं कामयमानानां शत्रूणां दाहक इन्द्रः वनेषु उदकेषु नि- मित्तभूतेषु वृत्रम् आवरकं मेघं व्यंसम् विगतांसं यथा भवति तथा वि- दार्य अन् अवधीत् । ततो राम्याणाम् रमणीयानाम अपाम अर्घाय धेनाः । वाकामैतत् । वाचः स्तनितानि आविरकृणोत् प्रकाशम् अका- षत् ॥ वृत्रासुरपक्षे वनेषु आच्छन्नं वृत्रम् उशधक् सन् व्यंसम विगतांसं कृत्वा अंसाद्यङ्गानि विच्छिद्य अहन अवधीत् । राम्याणाम रमणार्हाणां क्रीडासाधनानां तद्योषिताम् । X रामम् अर्हतीत्यर्थे “ छन्दसि च " आर्तिवाच आविरकृ- इति यत् प्रत्ययः । प्रत्ययस्वरेणान्तोदात्तः । हिंसायाम् । 'मीनातेर्निगमे" इति हस्वत्वम् । णोद् इत्यर्थः । अथ वा राम्याणाम् क्रीडार्हाणां रात्रीणां संबन्धिनीर्धेना गाः । रात्रौ तमसा वृताः असुरापहृता गा इत्यर्थः । ताः आविरकृ- णोत् असुरान् अपहत्य ताः स्पष्टाञ्चकार । असुरैर्देवानां गवादिलक्षणध- नम् अपहृत्य रात्रिप्रवेशस्तैत्तिरीयके । “अहर्देवानाम आसीद् । रात्रिरसु- राणाम् । तेसुरा यद् देवानां वित्तं वेद्यम् आसीत् तेन सह रात्रिं प्रा- विशन्” इति [ तै० सं० १. ५.९.२] ॥ चतुर्थी ॥ इन्द्र॑ स्व॒र्षा ज॒नय॒न्नहा॑नि जि॒गायो॒शिग्भिः पृत॑ना अभि॒ष्टिः । प्रारो॑चय॒न्मन॑वे के॒तुमहि॒मव॑न्द॒ज्योति॑र्बृह॒ते रणा॑य॒ ॥ ४ ॥ इन्द्र॑ः । स्व॒ऽसा । ज॒नय॑न् । अहा॑नि । जि॒गाय॑ । उ॒शिक्ऽर्भिः । पृत॑नाः । अभिष्टिः । प्र । अ॒रोच॒य॒त् । मन॑वे । के॒तुम् । अहा॑म् । अवि॑न्द॒त् । ज्योति॑ । बृह॒ते । रणाय ॥ ४ ॥ स्वर्षाः स्वर्गस्य लम्भकः । नां सन्झलोः” इति आत्वम् । 1S शत्रुदाहः for शत्रुदाहकः. " । ४ षणु दाने । क्विप् । “ जनसनख - 'सनोतेरनः" इति षत्वम् । " अ-