पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०१. सू० ११.] ६२७ विंशं काण्डम् | हरादीनां पत्यादिषूपसंख्यानम्" इति रत्नम् ४ । न्ता शत्रूणाम अभिभविता । ५६३ अभिष्टि: अभिग- इषु गतौ । " मन्त्रे वृष०" इत्या- दिना तिन उदात्तत्वम् । स हि भावपरोपि भवितारं लक्षयति । “ति- नुत्रतथसि० " इत्यादिना इदमतिषेधः । शकन्ध्वादित्वात् पररूपत्वम् । कृदुत्तरपदप्रकृतिस्वरः । तादृश इन्द्रः अहानि जनयन् प्रादुर्भाव - यन् तमोनिवर्तनेन युद्धानुकूलानि कुर्वन् उशिग्भिः युद्धं कामयमानैरसुरैः सह युद्धं कृत्वा पृतनाः तेषां सेना जिगाय अजैषीत् । किं च । म- नवे मनुष्याय । जातावेकवचनम् । मनुष्येभ्यो यजमानेभ्यः बृहते म- हते रणाय रमणाय क्रीडनाय । प्रभूतवैदिकलौकिकव्यवहारायेत्यर्थः । त- दर्थम अह्नां केतुम प्रज्ञापकम् आदित्यं प्रारोचयत् दिवि अदीपयत् । त- तो ज्योतिः सर्वपदार्थप्रकाशकं तेजः अविन्दन् लब्धवान् ॥ पञ्चमी ॥ । इन्द्र॒स्तुजो॑ ब॒र्हणा॒ आ वि॑वेश नृ॒वद् दधा॑नो॒ नर्या॑ पु॒रूणि । अचे॑तय॒द् धिय॑ इ॒मा ज॑रि॒त्रे प्रेमं वर्णमतिरच्छु॒क्रमा॑साम् ॥ ५ ॥ इन्द्र॑ः । तुज॑ः । ब॒र्हणा॑ः । आ वि॒वेश । नृऽवत् । दधा॑नः । नर्यो । पु- रूणि । अचे॑तयत् । धिय॑ः । इ॒माः । जरि॒त्रे । । इ॒मम् । वर्ण॒म् । अतिरत । शु- क्रम | आसाम ॥ ५ ॥

  • तु-

इन्द्रो देवः बर्हणाः अभिवृद्धाः तुजः हिंसिकाः शत्रुसेनाः । ज हिंसायाम् । किप् । धातुस्वरः ४ । आ विवेश प्राविक्षत् । तत्र दृष्टान्तः । नृवत् मनुष्य इव स यथा शत्रुसेना युद्धार्थ प्रविशति तत् । किं कुर्वन् । नर्या नर्याणि नरेभ्यः ऋलिगादिरूपेभ्यो मनुष्येभ्यो हितानि पुरूणि बहूनि । सामर्थ्याच्छत्रुधनानीति गम्यते । दधानः धार- यन् । ४ दधातेः शानचि रूपम् । 'अभ्यस्तानाम् आदिः" इति । किं च इमाः परिदृश्यमानाः प्रसिद्धा धियः । आयुदात्तत्वम् 18' घसेत्यादिना. 28 तासां. 66