पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४४ अथर्वसंहिताभाष्ये धीजनकत्वात् सर्वैर्ध्यायमानत्वाच्च धिय उषसः । धीशब्दस्य उषः परत्वं मन्त्रान्तरे । “ शुक्रवर्णामुदु नो यंसते धियम्” इति [ ऋ° १४३.७] । जरित्रे स्तोत्रे स्तोतॄणाम अर्थाय अचेतयत् प्राज्ञापयत् । उषसि हि प्रर्बु- वायां स्तोत्रशस्त्रादीनि प्रवर्तन्ते । उक्त एवार्थः प्रकारान्तरेण उच्यते । आसां धियाम् उपसाम इमं प्रसिद्धं शुक्रवर्ण प्रातिरत प्रावर्धयत् । 3 आ- साम । “ इदमोन्वादेशेशनुदात्तस्तृतीयादौ ” इति इदम: अश् आदेशः । सोप्यनुदात्तः । प्रत्ययश्च सुप्त्वाद् अनुदातः । अतः सर्वानुदात्तम आ- साम इति पदम ॥ षष्ठी ॥ म॒हो म॒हानि॑ पनयन्त्य॒स्येन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ । वृ॒जने॑न वृजि॒नान्सं वि॑षेष मा॒याभि॑र्दस्मै॑र॒भिभू॑त्योजाः ॥ ६ ॥ { म॒हः । म॒हानि॑ । प॒नय॑न्ति॒ । अ॒स्य॒ इन्द्र॑स्य । कर्म॑ । सुकृता । पुरूणि । वृ॒जने॑न । वृजि॒नान् । सम् । पि॒पेष । मा॒याभि॑ः । दस्यू॑न । अ॒भिर्भूति- ओजाः ॥ ६ ॥ महः महनीयस्य महतो गुणैः प्रवृद्धस्य वा । मह पूजायाम् । क्विप् । “ सावेकाच: ० ०" इत्यादिना विभक्तेरुदात्तत्वम् । महच्छब्दस्य वा । छान्दसः शतृप्रत्ययलोपः । अस्य प्रसिद्धस्य इन्द्रस्य महानि मंह - नीयानि सुकृता सुकृतानि सुष्ठु संपादितानि पुरूणि बहूनि कर्म कर्मा- णि पनयन्ति स्तुवन्ति स्तोतारः । तेषु एकं कर्म अत्रोपवर्ण्यते । अभि- भूत्योजाः अभिभूतिरभिभवः । अभिभवितृ ओजो बलं यस्य । अ- थ वा शत्रवभिभवे समर्थम् ओजो यस्य स तथोक्तः । अभिभूतिर- भिभवनम् । भावे क्तिन् । “ तादौ च निति" इत्यभेः प्रकृतिस्वर- तम् । अभिभूतौ ओजः अस्येति “सप्तम्युपमानपूर्वपदस्य बहुब्रीहि: ' इति समासः । बहुव्रीहौ पूर्वपदप्रकृतिस्वर : ४ । तादृश इन्द्रो वृ- जनेन आवर्जकेन बलेन आयुधेन वा वृजिनान् 1S प्रवुद्ध. ," पापरूपान, असुरानन्