पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०१. सू० ११.] ६२७ विंशं काण्डम् | ५८५ सं पिपेष सम्यक् चूर्णीकृतवान् । तथा मायाभिः स्वशक्तिभिः दस्यून उपक्षपयितृन् शत्रून सं पिपेष ॥ सप्तमी ॥ यु॒धेन्द्रों म॒ह्ना वरि॑वश्चकार दे॒वेभ्यः॒ सत्प॑तिश्चर्षणि॒प्राः । वि॒वस्व॑तः॒ सद॑ने अस्य॒ तानि॒ विषा॑ उ॒क्थेभिः॑ क॒वयो॑ गृणन्ति ॥ ७ ॥ यु॒धा । इन्द्र॑ । म॒ह्ना । वरि॑वः । च॒कार॒ । दे॒वेभ्य॑ः । सत्ऽप॑तिः । चर्षणि॒ऽमाः । वि॒वस्व॑तः । सद॑ने । अ॒स्य॒ । तानि॑ । विप्रा॑ । उ॒क्थेभिः॑ । क॒वय॑ः । गृ॒णन्ति॒ ॥ ७ ॥ इन्द्रो देवः युधा युद्धेन । ° महा स्व- युध संप्रहारे । भावे संपदादिल- क्षणः क्विप् । “सावेकाच: ० " इति विभक्तेरुदात्तता । महत्त्वेन । अन्यनैरपेक्ष्येणेत्यर्थः । देवेभ्यः । दीव्यतिरत्र स्तुत्यर्थ: । स्तो- तृभ्यः तेषामर्थाय वरिवः । धननामैतत् । वरणीयं धनं चकार कृत- वान् । &वृञ् वरणे इत्यस्य यङुकि रूपम् । " ऋतश्च" इति अ- भ्यासस्य रिगागमः । तदन्ताद् असुन । बाहुलकाट्टिलोपः । नित्व- रः । " इन्द्रो विशेष्यते । सत्पतिः सतां कर्मानुष्ठायिनां यजमानानां पालकः चर्षणिमा: चर्षणयो मनुष्याः । तेषाम् अभिमतफलपूरकः । कुत्र वरिवश्चकारेति उच्यते । विवस्वतः । विवस्वान् आदित्यः । तस्य सदने स्थाने वृष्टिप्रतिबन्धकान् असुरान् पराजित्य वृष्टिलक्षणं धनं चकारेत्यर्थः । अथ वा एतद् उत्तरत्र संबध्यते । विवस्वतः विशेषेण अग्निहोत्रादिकर्मार्थं वसतो यजमानस्य सदने गृहे । 8 विपूर्वाद् वस निवासे इत्यस्मात् संपदादिलक्षणो भावे किप् । तद् अस्यास्तीति मतुप् । “मादुपधाया : ० " इत्यादिना तस्य म् । प्रत्ययस्य पित्त्वाद् अनुदात्तत्वे धातुस्वर एव । अवग्रहाभावश्छान्दसः । अस्य उक्तमहिमोपेतस्य इन्द्रस्य तानि सिखानि वृत्रवधादिलक्षणानि कर्माणि विमा मेधाविन ऋत्विजः । की- दृशाः । कवयः क्रान्तप्रज्ञाः अनूचाना वा । “ये वा अनूचानास्ते क- वयः इति [ ऐ० ब्रा०२ २] श्रुतेः । उक्थेभिः । उक्थै: आज्यप्रउगा- दिशस्त्रैः गृणन्ति स्तुवन्ति ॥ " 18' 'नैरपेक्षेणेत्यर्थः. ७४