पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०१. सू० ११.] ६२७ विंशं काण्डम । 48७ अत्यान् अनार्हान् अश्वान् । उपलक्षणम् एतत् । तुरगगजोष्ट्रादिकानि वाहनानि प्राणिनां व्यवहाराय इन्द्रो देवः ससान प्रादात् । दाने । लिटि रूपम् 8 । षणु उत अपिच सूर्यम् सर्वस्य प्रकाशकं देवं प्राणिनां व्यवहारार्थं ससान । एवं पुरुभोजसम् पयोदध्यादिलक्षणबहुमका- रभोगसाधनां बहुविधप्राणिभोगसाधनां वा गाम । जातावेकवच- ,, किंच दस्यून नम् । गाः ससान । एतन्महिष्यादेरपि उपलक्षणम् । उत अपि च हिरण्ययम् हिरण्मयं हिरण्यविकारात्मकं भोगम भोगसाधनं कटकमुकु- टादिकं ससान | हिरण्यशब्दाद् विकारार्थे “मयद्वैतयोः" इति विहितस्य इन्दसि विषये “ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि च्छन्दसि इति निपातनाद् मयटो. मकारलोपः । प्रत्ययस्वरः ४ । उपक्षपतॄिन प्राणिविघातकान् असुरादीन् हत्वी हत्वा । ४ हन्तेः कार्थे “ स्नात्व्यादयश्च" इति निपातितः ४ 1 आर्यम् उत्तमं वर्ण ब्रा- ह्मणक्षत्रियवैश्यात्मकं यजनादिकर्माधिकारवन्तं प्रावत् प्रकर्षेण रक्षितवान् ॥ दशमी ॥ इन्द्र॒ ओष॑धीरसनो॒दहा॑नि॒ वन॒स्पती॑रसनोद॒न्तरि॑क्षम् । वि॒भेद॑ व॒लं नु॑नु॒दे विवा॒चोथा॑भवद् दमि॒ताभित्र॑तू॒नाम् ॥ १० ॥ इन्द्र॑ः । ओष॑धीः । असनोत् । अहा॑नि । वन॒स्पती॑न् । असनो॒त् । अ॒न्तरि॑क्षम् । । } । वि॒भेद॑ । व॒लम् । नुनुदे । विऽवा॑चः । अर्थ अभवत् । द॒सि॒ता । अ॒भिऽ- तूनाम् ॥ १० ॥ उक्त महिमोपेतः स एव इन्द्रः ओषधीः व्रीहियवादिका असनोत् प्रा- युपभोगार्थं सृष्ट्वा प्रादात् । तथा अहानि असनोत् दिवसान्यपि प्राण्यु- पभोगार्थं कल्पयित्वा प्रायच्छत् । एवं वनस्पतीन तरूंतपनसाद्यान् अ- सनोत् सृष्ट्वा प्रायच्छत् । एवम् अन्तरिक्षम् अन्तरा क्षान्तं भवति स- र्वम् इत्यन्तरिक्षम आकाशः । तदपि सर्वोपकारार्थम् असनोत् । किंच वलम् एतन्नामानम् असुरं बिभेद अदारयत् । विवाचः विरुद्धा प्रति- कूला वाग् येषां ते विवाचः । तानपि नुनुदे दूरं निराचकार । अथ