पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4tt अथर्वसंहिताभाष्ये । अनन्तरम् अभिऋतूनाम् । ऋतवः कर्माणि । अभिगतकर्मणाम् अनुष्ठि- तविरुद्धकर्मणां दुष्टानां दमिता शमयिता अभवत् अभूत् । अनेन प्रा- णिनाम् इष्टप्राप्तिम् अनिष्टपरिहारं च कृतवान् इत्युक्तं भवति ॥ एकादशी ॥ शुनं हु॑वे म॒घवा॑न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं वाज॑सातौ । शृण्वन्त॑मु॒ग्रमू॒तये॑ स॒मन्तु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जिते॒ धना॑नाम् ॥ ११ ॥ शुनम् । हुवे । म॒घवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरें। नृत॑मम् । वा- सातौ । । शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । नन्त॑म् । वृ॒त्राणि॑ । स॒मा॒ऽजित॑म् । धना॑नाम् ॥ ११ ॥ मघवा- शुनम शूनम अभिवृद्धं सर्वैर्गुणैरुत्कृष्टम् । अथ वा शुनम इति सु- खनाम | सुखकरं वा । 8 टुओवि गतिवृद्ध्योः । निष्ठायां “यस्य विभाषा ” इति इट्प्रतिषेधः । यजादित्वात् संप्रसारणम् । दीर्घाभावश्छा- न्दसः । 'ओदितश्च" इति निष्ठानत्वम् । प्रत्ययस्वरः ४ । नम् । मघम् इति धननाम । धनवन्तम् अस्मिन् एतस्मिन् भरे । भर इति संग्रामनाम भरणात् हरणांच्च । संग्रामे । यद्वा ये ये सं- ग्रामनामानस्ते सर्वे यज्ञनामान इति व्यपदेशाद् अस्मिन् भरे अस्मिन् यज्ञे वाजसातौ । वाजः अन्नम् । तस्य सातिर्लाभः अन्नलाभे निमि- भूते । अथ वा एतद् भरविशेषणम् । वाजस्य सातिर्यस्मिन् तस्मिन् भरे नृतमम् नेतृतमं संग्रामे पुरतो गन्तारं यज्ञस्य नेतारं वा शृण्व- न्तम् आह्वानस्य श्रोतारम् उग्रम् उद्गर्णबलं समत्सु संग्रामेषु वृत्राणि आवरकान् शत्रून घ्नन्तम् हिंसन्तं धनानाम् शत्रुसंबन्धिनां संजितम् स- म्यग्जेतारम् एवंमहानुभावम् इन्द्रम ऊतये रक्षणाय हुवेम आलम || [इति] एकादशं सूक्तंम ॥ 66 “ उदु ब्रह्माणि " इति सूक्तस्य विनियोग उक्तः ॥ 1 S' भरणाच.