पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५९० अथर्व संहिताभाष्ये ब्दः उक्तलक्षणं स्तोत्रम् अयामि । अकारीत्यर्थः । कर्मणि चिण् ४ । यम उपरमे । यत् यस्मात् कारणाद् विवाचि विगतवचसि नि- यमस्थे । अथ वा विविधा मन्त्ररूपा वाचो यस्य तादृशे यजमाने तस्मि निमित्तभूते सति शुरुधः शुचं रुन्धन्तीति शुरुधः । न्दसः । ककारलोपश्छा- जनिमृतिलक्षणशोकनिवर्तकाः स्वर्गफलकाः सोमा इरज्य- न्त अवर्धन्तं । ४ इरज् ईर्ष्यायाम् इति धातुरत्रं वृद्ध्यर्थः । अ- स्मात् कण्वादेर्यक् । सनादित्वाद् धातुसंज्ञायाम् अस्मालङ् । “बहुलं छन्दसि " इति अडभावः । एकादेशस्वरेण मध्योदात्तः । एवं स्तोत्रेण हविषा च इन्द्रं परितोष्य अथ स्वाभिमतं याचते नहीत्यादिना । जनेषु मनुष्येषु । मनुष्याणाम् इत्यर्थः । यद्वा जनाः जननात् जन्मानि निमित्तभूतानि । [तेषु ] सत्सु अयं जनो यजमानः स्वम् स्वकीयम् आ- युः आयुष्यं न चिकिते न ज्ञातवान् । एतावद् आयुष्यं ममास्तीति न जानातीत्यर्थः । अतस्त्वदीययागाद्यनुष्ठानोपयोगार्थं दीर्घम आयुः प्रय- च्छेति शेषः । कुप्तस्य शतसंवत्सरलक्षणस्यायुषोऽल्पीभावे अंहसां कार- वात् तदसंस्पर्श प्रार्थयते । तानीत् तान्यपि आयुः क्षपणहेतुत्वेन प्रसि- द्वान्यपि अंहांसि पापानि अस्मान त्वां संभजमानान् अति अतिक्रम्य- पर्षि पालय । तृतीया ॥ यु॒जे रथे॑ ग॒वेष॑ण॒ हरि॑भ्या॒मुप॒ ब्रह्म॑णि जुजुषा॒णम॑स्युः । वि बा॑धिष्ट॒ स्य रोद॑सी महि॒त्वेन्द्रो॑ वृ॒त्राण्य॑म॒ती ज॑घ॒न्वान् ॥ ३ ॥ यु॒जे । रथ॑म् । ऽएष॑णम् । हरिंऽभ्याम् । उपे । ब्रह्मणि । जुजुषाणम् । अस्थुः । वि । वा॒धष्ट॒। स्य । रोद॑सी॒ इति॑ । म॒हि॒त्वा । इन्द्र॑ः । वृ॒त्राणि॑ । अ॒प्रति । जघन्वान् ॥ It य इन्द्रो गवेषणम् गवां प्रापयितारं रथम | 1S अवर्धयंत 28 धातुतत्र for धातुरत्र. " अव स्फो-