पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०१. सू० १३.] ६२९ विंशं काण्डम् | ५९३ " ब- स्तुतः स्तोत्रैः पूजितः सन् नः अस्मभ्यं वीरवत् बहुभिर्वीरैः पुत्रादिभि- रुपेतं गोमत बीभिर्गोभिरुपेतं धनं धोतु दधातु प्रयच्छतु । हुलं इन्दसि ” इति श्वोरभावः ४ । सृत्य नः अस्मान् स्वस्तिभिः क्षेमैः सदा पात रक्षत ॥ . सप्तमी ॥ हे देवा यूयं च इन्द्रम अनु- ऋजीषी व॒ज्री वृ॑ष॒भस्तु॑रा॒षाट्छुष्मी राजा॑ वृत्र॒हा सो॑म॒पावा॑ । युत्का हरि॑भ्या॒मुप॑ यासद॒र्वाङ् माध्य॑दिने॒ सव॑ने मत्स॒दिन्द्र॑ः ॥ ७ ॥ ऋजीषी । वज्री । वृषभः । तुरा॒षाट् । शुष्मी । राजा॑ वृत्र॒हा । सोम॒ऽपावा॑ । युक्का । हरि॑ऽभ्याम् । उप॑ । य॒स॒त् । अ॒र्वाङ् । माध्यैदिने । सव॑ने । - स॒त् । इन्द्र॑ ॥ ७ ॥ ऋजीषी प्रातर्माध्यंदिन सवनाभ्याम् अभिषवेण गतसारस्तृतीयसवन उ- पयोक्ष्यमाणः सोम ऋजीषः । " तस्मात् तृतीयसवन ऋजीषम् अभि पुण्वन्ति" इति [ तै० सं० ६.१.६. ४ ] श्रुतेः । तद्वान् ऋजीषी । अ- नेन सवनत्रयेपि इन्द्रस्य सोमसंबन्ध उक्तो भवति । वज्री वज्रवान् वृष- भः कामानां वर्षिता तुराषाट् । नुरास्त्वरमाणाः शत्रवः । तेषाम् अ- भिभविता शुष्मी । शुष्मं शत्रुशोषकं बलम् । तद्वान् राजा देवेषु म- ध्ये क्षत्रियजातीयः सर्वस्य स्वामी वा वृत्रहा वृत्रस्य हन्ता सोमपावा य- त्रयत्र सोमाभिषवोस्ति तत्रतत्र नियमेन सोमस्य पाता एवंमहानुभाव इन्द्रः हरिभ्याम् अश्वाभ्यां युक्का रथं योजयित्वा अर्वाङ् अस्मदभिमुखा - ञ्चनः सन् उप यासत् उपागच्छतु गत्वा च अस्मिन् माध्यंदिने सवने मत्सत् अस्माभिर्दत्तेन सोमेन माद्यतु ॥ इति द्वादशं सूक्तम् ॥ ज्योतिष्टोमादिषु ऋतुषु “इन्द्रश्च सोमं पिबतं बृहस्पते" इत्याद्यास्ति- चस्तेषामेवविजां त्रयाणां क्रमेण तातयसवनिक्यः प्रस्थितयाज्याः । १ P मत्र्त्सत् ॥. We with PJ Ce. 1 $ दातु for धातु. ७५