पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५९४ अथर्वसंहिताभाष्ये सूत्रतं हि । “ इन्द्रश्च सोमं पिबतं बृहस्पत इति प्रस्थितयाज्याः” इति [वै०३, १२] " ॥ “ऐभिरग्ने ” [४] इत्यनया आग्नीधः पानीवतग्रहं यजेत । सूत्रितं हि । “ऐभिरम इत्युपांशु पालीवतस्य आग्नीधो यजतिं " इति [वै०३.१३] ॥ तत्र प्रथमा || इन्द्र॑श्च॒ सोमे॑ पिबतं बृहस्पते॒स्मिन् य॒ज्ञे म॑न्दसा॒ना वृ॑षण्वसू । आ वा॑ विश॒न्विन्द॑वः स्वाभुवो॒स्मे र॒यिं सर्ववीरं नि य॑च्छतम् ॥ १ ॥ इन्द्र॑ । च॒ । सोम॑म् । पि॒बत॒म् । बृहस्पते । अस्मिन् । य॒ज्ञे । मन्दसाना । वृषण्वसू इति वृषण्वसू । आ । वा॒म् । वि॒शन्तु । इन्द॑वः । सुऽआ॒भुवः॑ः । अ॒स्मे इति॑ । र॒यिम् । स- वीरम् । नि । यच्छ्रतम् ॥ १ ॥ 1 हे बृहस्पते बृहतो वेदराशेः स्वामिन् एतन्नामक देव लम इन्द्रश्च युवां सोमं पिबतम् । कीदृशौ युवाम् । अस्मिन यज्ञे मन्दसाना - यन्तौ वृषण्वसू वर्षितृधनी । यजमानाय दीयमानधनावित्यर्थः । वाम युवां स्वाभुवः सुष्ठु सर्वतो भवन्तः । कृत्स्नशरीरव्यापनसमर्था इत्यर्थः । तादृशा इन्दवः सोमाः [आ] विशन्तु युवयोः शरीरं प्रविशन्तु । अ- स्मे अस्मभ्यं रयिम् धनं सर्ववीरम् सर्वपुत्राद्युपेतं नि यच्छतम् दर्शम || द्वितीया ॥ आ वो वहन्तु सप्त॑यो रघुष्यदी॑ रघुपत्वा॑न॒ प्र जि॑गात ब॒हुभि॑ः । सीद॒ता ब॒र्हिरु॒रु वः॒ सद॑स्कृतं मा॒दय॑ध्वं मरुतो॒ मध्वो॒ अन्ध॑सः ॥ २ ॥ आ । वः॑ । ब॒ह॒न्तु॒ । सप्त॑यः । र॒घुऽस्यद॑ः । र॒घुऽपत्वा॑नः । प्र । जि॒गात् । बाहुः । सीद॑त । आ । ब॒र्हिः । उ॒रु । वृ॒ः । सद॑ः । कृ॒तम् । मा॒दय॑ध्वम् । म॒रुतः । मध्वः॑ । अन्ध॑सः ॥ २॥ । 15 अग्नीध 25 यजते 3S ददतम्.