पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०१. सू० १३. ] ६२९ विंशं काण्डम् | ५९५ एव ष्ट । । हे मरुतः रघुष्यदः लघुस्यन्दना लघुगतयः सप्तयः सर्पणशीला अश्वाः वः युष्मान् [आ] वहन्तु यज्ञगृहं प्रति प्रापयन्तु । यूयं च बाहुभिः शीघ्र- गमनसाधनै रघुपत्वानः लघुपतनाः । g पत्ऌ गतौ । “अन्येभ्योपि दृश्यन्ते " इति वनिप् । कृदुत्तरपदप्रकृतिस्वरेण प्रत्ययस्य पित्त्वाद् धानुवर तादृशः सन्तः प्र जिगात प्रकर्षेण गच्छत । ष्ट जि- गातीत्ययं गतिकर्मसु पठितः । गा स्तुतौ । जौहोत्यादिकः । लोम- ध्यम बहुवचनस्य " तप्तन० " इत्यादिना तादेशः । तस्य पित्वेन ङित्त्वा- भावाद् “ई हल्यघोः” इति ईलाभावः ४ । वः युष्माकम् [उरु वि- स्तीर्ण] सदः सीदत्यत्रेति [ सदः ] सदनं स्थानं वेदिलक्षणं कृतम् निष्पादि- तम् । तत्र बर्हिः आस्तीर्ण बर्हिः सीदत बर्हिषि निषण्णा भवत । बर्हि- रित्येतत् सद इत्यस्य विशेषणं वा । बर्हिरुपेतं सदनम् इत्यर्थः । अथ वा सदः सदनार्ह कृतं बर्हिः सीदतेति योज्यम् । निषद्य च मध्वः मधु- रस्य अन्धसः सोमलक्षणस्य अन्नस्य अंशम् । यद्वा मध्वः मधु अन्धसः अन्नं सोमम । पीत्वेति शेषः । मादयध्वम् तृप्ता भवत । तृतियोगे । चुरादिः । आत्मनेपदी ४ ॥ तृतीया ॥ इ॒मं स्तोम॒महि॑ जा॒तवे॑दसे रथमिव॒ संम॑हेमा मनी॒षया॑ । मद भ॒द्रा हि नः॒ प्रम॑तिरस्य सं॒सद्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥ ३ ॥ इ॒मम् । स्तोम॑म् । अते । जा॒तवे॑दसे । रमऽइव । सम् । महेम । म- नीषया । भ॒द्रा । हि । नः । ऽर्मतिः । अ॒स्य॒ । स॒मऽसदि॑ । अग्ने॑ । स॒ख्ये । मा । रिषाम । व॒यम् । तव॑ ॥ ३ ॥ अर्हते पूज्याय । देशः । । अर्ह प्रशंसायाम् इति [ धातो: ] लटः शत्रा- जातवेदसे जातप्रज्ञाय जातधनाय वा जातानाम् उत्प- नानां वेदित्रे वा इमम् इदानीं क्रियमाणं स्तोमम् एतत् स्तोत्रं मनी- 18 दृश्यत इति for दृश्यन्ते " इति.