पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५९६ अपर्वसंहिताभाष्ये या निशितया बुद्ध्या सं महेम सम्यक् पूजयेम निष्पादयेम । तत्र ह- टान्तः । रथमिव यथा रथं रथकारः अक्षफलकाद्यवयवसंयोजनेन सं- स्करोति तद्वत् । महानुभावस्याग्नेः स्तोमनिष्पादने अतिशयितया बुद्ध्या भवितव्यम् इति प्राप्ते तत्सद्भावं दर्शयति । अस्य पूज्यस्याग्नेः संसदि संसदने उपसत्तौ तद्विषये नः अस्माकं प्रमतिः प्रकृष्टा मतिः भद्रा हि कल्याणी खलु । अतः हे अग्ने तव सख्ये बन्धुभावे सति वयं स्तोतारो मा रिषाम हिंसिता न भवेम ॥ चतुर्थी ॥ ऐग्ने स॒रथ॑ह्म॒र्वाङ् ना॑नर॒र्थं वा॑ वि॒भावा॑ । पत्नी॑वतस्त्रंशतं त्रींश्च॑ दे॒वान॑नुष्व॒धमा व॑ह मा॒दय॑स्व ॥ ४ ॥ आ । एभिः । अग्ने स॒रथ॑म् । याह । अ॒र्वाङ् । नानाऽर॒पम् । वा । विऽभः । हि । अश्वः । 1 पत्नी॑ऽवतः । त्रि॒शत॑म् । त्रीन् । च । दे॒वान् । अनुऽस्व॒धम् । आ । वहु । मादर्यस्व ॥ ४ ॥ हे अग्ने [ एभि: ] वक्ष्यमाणैस्त्रयस्त्रिंशत्संख्याकैर्देवैः सह सरथम समा- नः एक एव रथो यस्मिन्नागमनकर्मणि तत् सरथं तद् यथा भवति तथा अर्वाङ् अस्मदभिमुखम् आ याहि आगच्छ । सरथम इति न नियम इत्याह । नानारथं वा नांना पृथग्भूता रथा यस्मिन् कर्मणि तद् नानारथम् । तत्तत्प्रतिनियतं रथम् आरुह्येत्यर्थः । सरथपक्षे बहूनां दे- वानाम एकेनैव रथेन आनयनम् अतिभारत्वात् कथं घटत इति तत्राह farai mar इति । अवास्तव रथे नियुक्ता विभवो हि शक्ताः खलु । अतः पत्नीवत्तः स्वकीयाभिः पत्नीभिर्युक्तान् त्रिंशतम् श्रीश्व ज्युत्तरत्रिंशा- ख्याकान् देवान् " ये देवा दिव्येकादश स्थ" इति [ तै० सं०१४.१०.१] मन्त्रोक्तान् अनुष्वधम् । स्वधेत्यन्ननाम । तांतां स्वधाम अनुलक्ष्य यदा- 1S' प्राप्तायां. 28 रथमारोहयित्वेत्यर्थः.