पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०२. सू० १५.] ६३१ विंशं काण्डम् | ५९९ हे सखायः समानख्याना मित्रभूता यजमानाः वः युष्माकम् ऊतये रक्षार्थं तम इन्द्रं स्तुषे स्तौमि । य इन्द्रः पुरा पूर्व नः अस्माकं वस्यः वसीयः । ईकारलोपश्छान्दसः । अतिप्रशस्तं वसु हिर- ण्यादिकम् इदमिदम् [इदं] गवादिकम् इति निर्दिश्य निर्दिश्य प्रांनि- नाय प्रानैषीत् । तमु तमेव अभिमतप्रदातारम् इन्द्रम् । स्तुषे इति संबन्ध || चतुर्थी ॥ सत्प॑तिं चर्षणी॒सह॒ स हि मा॒ यो अम॑न्दत । आ तु नः॒ सव॑यति॒ गव्य॒मये॑ स्तो॒तृभ्यो॑ म॒घवा॑ श॒तम् ॥ ४ ॥ हरिअश्वम् । सत्प॑तिम् । चर्षणिऽसह॑म् । सः । हि । स्म । यः । अम॑न्दत । आ । नु । नः । सः । वयति । गव्य॑म् । अय॑म् । स्तो॒तृभ्य॑ः । मघवा॑ । शतम् ॥ ४ ॥ । हर्यश्वम् । हरिनामकाववौ यस्य स हर्यश्वः । तं सत्पतिम सतां कर्म श्रेष्ठाना पालकं चर्षणीसहम् चर्षणयो मनुष्याः तेषाम् अभिभविता- रम् । नियन्तारम् इत्यर्थः । तम् इन्द्रं स्तुषे इति संबन्धः । य इन्द्रः अमन्दत स्तुत्या तृप्तो भवति स हि स्म स हि खलु । स्तुत्य इति - षः । अतः उक्तगुणविशिष्टत्वात् तमेवेन्द्रं स्तुषे इत्यर्थः । यद्वा यः अ- मन्दत यो नरः इन्द्रदत्तेन धनेन तृप्त आसीत् स हि स्म स एव नरः उक्तलक्षणम् इन्द्रं तुष्टुति । स मघवा धनवान् इन्द्रः । तुशब्दो वा- क्यच्छेदे । स्तोतृभ्यो नः अस्मभ्यं शतम् शतसंख्याकं गव्यम् गोसमूहम अश्व्यम् शतसंख्याकम् अश्वसमूहं च आ वयति प्रापयतु । गत्यादिषु । अस्मालेटि अडागमः ॐ ॥ [इति ] द्वितीयेनुवाके प्रथमं सूक्तम् ॥

  • वी

" मंहिष्ठाय बृहते बृहद्रये " इति सूक्तस्य उक्थ्ये ऋतौ ब्राह्मणाच्छं- सिशस्त्रे विनियोग उक्तः ॥ 15 इकार 2S इदं for इदमिदम् S' om. प्रा.