पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०० अथर्व संहिताभाष्ये तत्र प्रथमा ॥ म मंहि॑ष्ठाय बृह॒ते बृ॒हद्र॑ये स॒त्यशु॑ष्माय त॒वस॑ म॒तिं भ॑रे । अ॒पामि॑व प्रव॒णे यस्य॑ दु॒र्धरं राधो॑ वि॒श्वाय॒ शव॑से॒ अपा॑वृत्तम् ॥ १ ॥ । मंहि॑ष्ठाय॑ । बृ॒ह॒ते । बृ॒हत्ऽर॑ये । स॒त्यशु॑ष्माय । त॒वर्से । म॒तिम् । भरे । अ॒पाम्ऽइ॑व । प्र॒व॒णे । यस्य॑ । दु॒ऽधर॑म् । राध॑ः । वि॒श्वऽआ॑यु । शव॑से । अप॑वृतम् ॥ १ ॥ मंहिष्ठाय अतिशयेन महनीयाय दातृतमाय वा बृहते महते गुणैः प्र- वृद्धाय वृहद्रये । रयिरिति धननाम । प्रभूतधनाय सत्यशुष्माय सत्यबलाय अवितथसामर्थ्याय तवसे । तवो बलम् । अतिशयितबलाय इन्द्राय । अथ वा तवसे बललाभाय उक्तगुणकाय इन्द्राय मतिं प्र भरे स्तोत्रं संपादयामि । यस्य उक्तगुणविशिष्टेन्द्रस्य विश्वायु । आयवो मनुष्याः । विश्वेषां मनुष्याणां पोषणसमर्थ राधः धनम् अपमिव प्रवणे । प्रवणः अवनतो देशः । तस्मिन् अपां पूर इव स यथा दुर्धरो भवति एवं दुर्धरं धनं शवसे बलाय प्रयोजनाय अपावृतम् अपगतावरणं कृतम् । तस्मा इन्द्राय मतिं भर इति संबन्धः ॥ द्वितीया । 11 अध॑ ते॒ विश्व॒मनु॑ हासदि॒ष्ट्य॒ आपो॑ नि॒म्नेव॒ सव॑ना ह॒विष्म॑तः । यत् पर्व॑ते॒ न समत हर्य॒त इन्द्र॑स्य॒ वज्रः श्रर्चिता हिरण्ययेः ॥ २ ॥ । अध॑ ते॒ विश्व॑म् । अनु॑ । हु । अ॒स॒त् । इ॒ष्टये॑ । आप॑ः । नि॒म्नाऽइ॑व । सर्वना । ह॒विष्म॑तः । । यत् । पर्व॑ते । न । स॒मा॒ऽअशी॑त । ह॒र्य॒तः । इन्द्र॑स्य । वज्र॑ः । नथि॑ता । हिरण्यर्यः ॥ २ ॥ अध अथ हे इन्द्र ते तव ष्टये एषणाय यागाय वा विश्वम् सर्व जगत् अनु हासत । हेति प्रसिद्धौ । अनुकूलं भवेत् । तत्र दृष्टान्तः । आप निम्ने निम्नान स्थलानि आप इव । ता यथा अनुक्रमेण प्र-