पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विंशं काण्डम् | ६०१ [अ०२. सू०१५. ] ६३१ वहन्ति तद्वद् विश्वम् अनु हासद् इति संबन्धः । अथ वा उत्तरत्र दृष्टा- न्तः । आपो निम्नानीव हविष्मतः यजमानस्य सवना सवनानि त्रीण्यपि वाम अनुगच्छन्ति । यत् यस्मात् हर्यतः कान्त: कमनीयः श्रथिता श- ari हिंसको हिरण्ययः हिरण्यमयो हिरण्येन भूषित इन्द्रस्य वज्रः प- ते न । नशब्दः अप्येर्थे । पर्वतेपि न समशीत न सक्तोभूत् किं नु व्यदारयदेव । अतो विश्वम् अनु हासद् इति पूर्वत्र संबन्ध: ॥ तृतीया ॥ अ॒स्मै भीमाय॒ नम॑सा॒ सम॑ध्व॒र उषो॒ न शुभ्र आ भ॑रा॒पनी॑यसे । • यस्य॒ धाम॒ श्रव॑से॒ नामे॑न्द्रि॒यं ज्योति॒रकर ह॒रितो॒ नाव॑से ॥ ३ ॥ अ॒स्मै । भीमाय॑ । नम॑सा । सम् । अ॒ध्व॒रे । उष॑ः । न । शुभ्रे । आ । भर । पनयसे । 1 । यस्य॑ । धार्म । श्रव॑से । नाम॑ । इ॒न्द्रि॒यम् । ज्योति॑ः । अकारि । ह॒रत॑ः । न । अय॑से ॥ ३ ॥ हे शुभ्रं दीप्ते हे उषः उपोदेवते भीमाय । बिभेत्यस्माद् इति भी - मः । शत्रूणां भयंकराय पनीयसे अतिशयेन स्तोतव्याय अस्मै इन्द्राय । यागः क्रियत इति शेषः । अतो नमसा न । नमः अन्नं च । नश- ब्दः चार्थे । चकाराद् उक्तलक्षणम् इन्द्रं च समा भर सम्यग् आहर अस्मद्यज्ञं प्रापय । अस्मदभिमतम् अन्नं यष्टव्यम इन्द्रं च आनयेत्यर्थः । उषस्युदितायां सत्यामेवं इन्द्रस्यागमनाद् उषस इन्द्राहरणव्यपदेशः । अथ वा नशब्दः अनर्थकः । उक्तलक्षणाय इन्द्राय नमसा | नमः अन्नम् । आ भर । अन्ने समृद्धे सत्येव इन्द्रम उद्दिश्य यागप्रवृत्तेरेवम उक्तम् । यस्य इन्द्रस्य धाम सर्वेषां धारकं पोषकम् इन्द्रियम इन्द्रहितम् इन्द्रद वा । " इन्द्रियम इन्द्रलिङ्गम् [ इन्द्रदृष्टम् ] इन्द्रसृष्ट० " इत्यादिना इन्द्रियशब्दो निपातितः ष्ठ । उक्तलक्षणं नाम सर्वेषां नामकम् उदकं श्रव॑से अन्नाय तत्समृङ्खंये भवति । येन च इन्द्रेण हरितो न हरितामिव 1 So 8'. A clear oversight. 28/ उपस्युदिते सत्येव. See foot-note at page ५८४. 38 इंद्रियहितम् 4S' उक्तलक्षनाम सर्वेषां नामकमुदश्रवसे. ७६