पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्व संहिताभाष्ये ६०२ दिशामिव असे प्राणिनां गमनाय गमनादिव्यवहाराय । पय गतौ इत्यस्माद् असुन ४ । समा भरेति पूर्वत्र संबन्धः ॥ चतुर्थी ॥ 2 अय [ ज्योतिः ] अकारि क्रियते । तं इ॒मे त॑ इन्द्र॒ ते व॒यं पु॑रुष्टुत॒ ये त्वा॒रभ्य॒ चरा॑मसि प्रभूवसो । न॒हि वद॒न्यो गिर्वणो गिरः सम॑त् क्षो॒णीरि॑व॒ प्रति॑ नो हर्य॒ तद् वच॑ः ॥ ४ ॥ इ॒मे । ते । इ॒न्द्र॒ । ते । व॒यम् । पुरु॒ऽस्तुत॒ । ये । त्वा॒ । आ॒ऽरभ्य॑ । चरा॑मसि । म॒भुव॒सो इति॑ प्रभुऽवसो । । । । नहि । त्वत् । अन्यः । गिर्वणः । गिर॑ः । सध॑त् । क्षो॒णी: ऽईव । प्रति॑ि । नः । हुर्य । तत् । वर्चः ॥ ४ ॥ । इन्द्रत इमे । प्रसिद्धिवाचकस्तच्छब्दः । इदमशब्दः अपरोक्षवा- ची । त्वदर्थकत्वेन प्रसिद्धा वयं ते तव स्वभूताः । हे पुरुष्टुत बहुभि- बहुप्रकारं वा स्तुत । एतद् इन्द्रेत्यस्य विशेषणम् । त इत्युक्तम् की - शास्त इत्यत्राह । ये वयम हे प्रभूवसो प्रभूतधन इन्द्र वा त्वाम् आ- रम्य आश्रित्य त्वामेव शरणं प्राप्य चरामसि चरामः । ते वयम् इति पूर्वत्र संबन्ध: । हे गिर्वणः गीर्भिर्वननीय इन्द्र त्वदन्यः त्वत्तो व्यतिरिक्तो देवः गिरः अस्मदीयानि वचांसि नहि सघत् न खलु सहते । स्तुत्यस्य तव महिम्नो निरवधित्वाद् अस्मदीयाना स्तुतिवचसाम् अत्यल्पत्वाच्च ता- वस्त्वयैव सोढव्यम् इत्यर्थः । * सहेलेंटि अडागमः । वर्णविप- येण हकारस्य धकारः ४ । तत्र दृष्टान्तः क्षोणीरिव क्षोणय इव । क्षोणीशब्देनात्र प्रजा विवक्ष्यन्ते । प्रजा राज्ञो यद्यद् विज्ञापयन्ति तत् सर्व स राजा यथा सहते तद् इत्यर्थः । यस्माद् एवं तस्माद् नः अ- स्माकं तद् वचः तादृग्वचनं प्रति हर्य प्रतिकामय ॥ 'पञ्चमी ॥ भूरि॑ त इन्द्र वी॒र्य॑नं॒ तव॑ स्मस्य॒स्य स्तोतुम॑घव॒न् काम॒मा पृ॑ण । १ BBDRC ३ for १. We with CEK Sv.