पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०४ अथर्व संहिताभाष्ये अव॑ । अ॒सृजः । निऽवृ॑ता॑ः । सर्तवै । अ॒पः। स॒त्रा । विश्व॑म् । दुधि॒षे । के- लम् । सहः ॥ ६ । हे इन्द्र वज्रिन् वज्रवन् त्वं तं प्रसिद्ध महान महान्तं महत्त्वोपे- तम् । नकारतकारयोर्लोपरछान्दसः ४ । उरुम अतिप्रभूतं प- र्वतम् पर्ववन्तं गिरिम् । जातावेकवचनम् । गिरीन् वज्रे- ण आयुधेन पर्वशः अवयवशः पक्षादिक्रमेण चकर्तिथ शकलीकृतवान् अ- सि । ४ कृती छेदने । थलि कादिनियमाद् इद् । गुणः ४ । यद्वा अत्र पर्वतशब्दः उत्तरत्र वृष्ट्यभिधानाद् मेघवाची । उक्तलक्षणं मेघं वज्रेण पर्वशो विदारितवान् असीत्यर्थः । अनन्तरं निवृताः नितरां मेघेन वृता अपः सर्तवै नद्याद्यात्मना सरणाय अवासृजः अवाङ्मुखं विसृष्ट- वान् असि । एवमाद्यात्मकं केवलम् असाधारणं विश्वम सर्व बलं त्वं दधिषे धारयसि । एतत् सत्रा सत्यं न मृषा । सत्रेति सत्यनाम ॥ [इति] द्वितीयेनुवाके द्वितीयं सूक्तम् ॥ << 'उदमुतः" इति सूक्तस्य उक्थ्ये ऋतौ ब्राह्मणाच्छंसिशस्त्रे विनियो ग उक्तः ॥ तत्र प्रथमा ॥ उ॒तो न वयो॒ रक्ष॑माणा॒ वाव॑दतो अ॒भ्रिय॑स्येव॒ घोषः । गिरजो नोर्मयो मद॑न्तो बृह॒स्पति॑म॒भ्य॑व॒र्का अ॑नावन् ॥ १ ॥ उ॒द॒ऽमु॒त॑ः । न । वय॑ः । रक्ष॑माणाः । वाव॑द॒तः । अ॒भ्रिय॑स्य॒ऽइव । घोषा॑ः । ग॒रि॒ऽभ्रज॑ः । न । ऊ॒र्मय॑ः । मद॑न्तः । बृह॒स्पति॑म् । अभि । अर्का । अ- नावन् ॥ १ ॥ उदतः उदकेषु गच्छन्तश्चरन्तः । ४ छान्दसत्वाद् असंज्ञायामपि उदकशब्दस्य उदादेशः ४ । रक्षमाणाः आत्मानं व्याधादिभ्यः पाल- १ PC निवृत्ताः . २ B गिरिभ्राजो, We with BCDEK KR SV De Cs. 3 B CE for . We with BDK SV De Cs. 15' उत्तरत्राप्यभिधानादत्र मेघवाची.