पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०२. सू० १६. ] ६३२ विंशं काण्डम | ६०५ " यतो वयो न पक्षिण इव ते यथा उच्चैर्ध्वनन्ति । वावदतः भृशं श- दं कुर्वतः । 8 वदेर्यङकि शतरि रूपम् । इति आद्युदात्तः ४ । 'अभ्यस्तानाम् आदिः ' अभ्यस्य मेघसमूहस्य घोषाः शब्दा इव । तथा गिरिभ्रजः । गिरिरिति मेघनाम । मेघेभ्यः सकाशाद् गच्छन्तः अधः पतन्तः मदन्तः सस्यादींस्तर्पयन्तः । अनेन धाराध्वनिरुपलक्ष्यते । ऊर्मयो न ऊर्मयः उदकानि ते यथा अधःपतनसमये शब्दं कुर्वन्ति - वम अर्काः अर्चनसाधना मन्त्राः । g अर्को मन्त्रो भवति यदने- नाचन्तीति निरुक्तम् [ नि०५.४] । स्तोतारो बृहस्पतिम् बृहतो मन्त्रराशेः स्वामिनम् एतन्नामानं देवम् अ- ४. नौतेश्छान्दसे लङि व्यत्ययेन शप् ॥ भ्यनावन् अभिस्तुवन्ति । द्वितीया ॥ अथ वा अर्का : अर्चका: सं गोभि॑राङ्गिर॒सो नक्ष॑माणा॒ भग॑ इ॒वेद॑र्य॒मण॑ निनाय । जने॑ मि॒त्रो न दम्पती अनक्ति॒ि बृह॑स्पते वा॒जया॒शूरि॑वा॒जौ ॥ २ ॥ सम् । गोभिः । आङ्गिरसः । नक्ष॑माणः । भर्गः ऽइव । इत् । अर्य॒मण॑म् । नि॒िनाय॒ । जने॑ । मि॒त्रः । न । दम्प॑ती इति॒ दम॒ऽप॑ती । अ॒नक्त । बृह॑स्पते । वा॒जय॑ । आ॒शून्ऽइ॑व । आ॒जौ ॥ २ ॥ · । आङ्गिरसः अङ्गिरोगोत्रोत्पन्नः एतन्नामां महर्षिः गोभिः । विकारे प्र- कृतिशब्दः । गोविकारैराज्यैः । यद्वा गोभिः स्तुतिवाग्भिः नक्षमाणः व्यावन् भग इवेत् एतन्नामको देव इव स यथा वधूवरौ अर्यमणं देवं नयति विवाहसमये एवम अर्यमणम् विवाहहोमाभिमानिनम् एतन्नामानं देवं दम्पती [सं] निनाय नयतु । किं च जने प्राणिसमूहे मित्रो न मि- त्राख्यो देव इव स यथा स्वरश्मीन् अनक्ति प्रकाशाय एवं स एव म- हर्षिः दम्पती वधूवरौ अनक्ति योजयति ॥ हे बृहस्पते देव त्वं च आ- शून् आजाविव यथा संग्रामे योद्धारः आशून व्यापकान् अश्वान् यो- जयन्ति एवं वधूवरौ वाजय संयोजय ॥ 1 Sáyapa's text too reads अभ्यस्येव 25/ ऊर्मयो रसाः उदकानि for ऊर्मयः उदकानि. 38' गोत्रोत्पंनो यस्य नामा. 48/ अश्वानिव तान् यथा योजयंति.