पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०६ अथर्व संहिताभाष्ये तृतीया ॥ साध्व॒र्या अ॑ति॒धनी॑रिषि॒रा स्पार्हाः सुवर्णा अनव॒द्यरूपाः । बृह॒स्पति॒ पर्व॑तेभ्यो वि॒तूर्या निर्गा अ॑पे यव॑मिव स्व॒विभ्य॑ः ॥ ३ ॥ साधुऽअ॒र्याः । अ॒ति॒थिनः। इषि॒राः । स्मा॒र्हाः । सु॒ऽवर्णैः । अनव॒द्यऽरू॑पाः । बृह॒स्पति॑ । पर्व॑तेभ्यः । वि॒तूर्ये । निः । गाः । ऊ॒पे । य॑व॑मा॒ऽइव । स्- विभ्यः ॥ ३ ॥ साध्वर्याः साध्वभिगन्तव्या अतिथिनीः अतिथितर्पका अतनशीला वा इषिराः एषणीयाः स्पार्हाः सर्वैः स्पृहणीयाः सुवर्णा: शोभनशुक्लादिवणों- पेता अनवद्यरूपा: अनिन्दितरूपाः प्रशस्तरूपाः । ♛ “अवद्यपण्य॰" इत्यादिना गर्थे अवद्यशब्दो निपातितः । पूर्वपदप्रकृतिस्वरः ४ । ए- वंलक्षणा गाः बृहस्पतिर्देवः पर्वतेभ्यः वलसंबन्धिभिरसुरैः पिहितेभ्यः प- तेभ्यः सकाशाद् वितूर्य निर्गमय्यं निरूपे निर्वपति निष्कृष्य प्रयच्छति स्तोतृभ्यः । तत्र दृष्टान्तः । यवमिव स्थिविभ्यः । स्थिवयः स्थिरा यव- hrust: । तेभ्यः सकाशाद् यथा यवं निष्कृष्य वपति तद्वत् । या स्विय: कुसूलाः । तेभ्यः सकाशाद् यवमिव ॥ चतुर्थी ॥ आ॒मु॒षायन् मधु॑न ऋ॒तस्य॒ योनि॑मवक्षि॒पन्न॒र्क उ॒ल्कामि॑व॒ द्योः । बृह॒स्पति॑रु॒द्धर॒न्नश्म॑नो॒ गा भूर्म्या उ॒द्वेव॒ वि त्वच॑ बिभेद ॥ ४ ॥ आ॒ऽमु॒षा॒यन् । मधु॑ना । ऋ॒तस्य॑ । योनि॑म् । अ॒व॒ऽभि॒पन् । अर्कः । उ- कामsa | द्योः । । बृह॒स्पति॑ । उ॒द्धर॑न् । अश्म॑नः । गाः । भूम्या॑ । उ॒द्गाऽइ॑व । वि । - । च॑म् । वि॒भेद् ॥ ४ ॥ १ B उ॑पे. We with B C DKK RSVDC. २P वर्यम् इव 1. We with É J Cr. ३ P द्यौः t. We with É J Cr. 1 S' निर्गमयित्वा.