पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०२, सू० १६. ] ६३२ बृहस्पतिर्देवः मधुना । भूमिं सर्वतः सिञ्चन् । विंशं काण्डम् | ६०७ मधु इति उदकनाम । उदकेन आमुषायन् ॠतस्य योनिम् उदकस्य ४ पुष सुष स्नेहनसेचनपूरणेषु । व्यत्ययेन विकरणस्य शायजादेशः । चित्स्वरः ४ । कारणभूतं मेघम् । यहा ऋतस्य योनिरित्युदकनाम ! मेघम् उदकं वा । ४ मधुन ऋतस्येत्यत्र संहितायाम् "ऋत्यकः " इत्यत्र ह्रस्व इ- त्यनुवर्तनात् ह्रस्वत्वम् । द्योः द्युलोकसकाशाद् अवक्षिपन् अवा- ड्युखं प्रेरयन् । तत्र दृष्टान्तः । अर्कः आदित्यः द्योः सकाशाद् उल्का- मिव तां यथा अवक्षिपति तद्वत् । किं च स बृहस्पतिः अश्मनः मेघस- काशाद् गा उदकानि उद्धरन च्यावयन् । अथ वा अश्मनः पणिभिः पिहितात् पर्वतात् तदुद्धारेण गाः तैरपहृत्य स्थापिता उद्धरन् अपगमयन् उद्वेव उदकेनेव तेन यथा भूम्यास्त्वचं विभिनत्ति उच्छूनां करोति एवं भूम्यास्त्वचं गोखुराग्रैः [वि] बिभेद विदारितवान् । सर्वत्र गाः सम- चारयद् इत्यर्थः ॥ पञ्चमी ॥ अय॒ ज्योति॑षा॒ नमो॑ अ॒न्तरि॑क्षादु॒द्रः शीपा॑ल॒मव॒ वात॑ आजत् । बृह॒स्पति॑रनुमृश्या॑ व॒लस्या॒भ्रमि॑व॒ वात॒ आ च॑क्र॒ आ गाः ॥ ५ ॥ अर्प । ज्योतिषा । तर्म । अ॒न्तरि॑क्षात् । उ॒द्गः । शीर्पालम्ऽइव । वात॑ः । आजत् । बृह॒स्पति॑ः । अ॒नु॒ऽमृश्य॑ । व॒लस्य॑ । अ॒भ्रमऽइ॑व । वात॑ः । आ । च॒क्रे । आ । गाः ॥ ५ ॥ 1 - बृहस्पतिर्देवः ज्योतिषा दीघ्या प्रकाशेन अन्तरिक्षात् आकाशाद् गि- रिकुहरात् तमः अन्धकारं गवाम् आवरकम् उदाजत् उदगमयत् । तत्र दृष्टान्तः । वातः वायुः उद्गः उदकात् । * " पद्दन " इत्यादिना उदकशब्दस्य उदन्नादेशः । “अल्लोपोनः" इति अकारलोपः । उदात्त- निवृत्तिस्वरः ४ । तत्सकाशात् शीपालमिव शीपालं शैवालम् । 1 So 8, though Sāyana's text has अप ज्योतिषा. व-