पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०८ अथर्व संहिताभाष्ये fव्यत्ययेन ऐकारवकारयोरीकारपकारौ । तद् यथा उदजति अ- पगमयति तद्वत् । किं च बृहस्पतिर्देवो वलस्य एतन्नामकस्यासुरस्य गवाम् अवस्थानप्रदेशम् अनुमृश्य परामृश्य वातः वायुः अभ्रमिव स यथा मेघम आकरोति सर्वतः प्रसारयति अन्तरिक्षे एवं गाः वलेन अ- पहृत्य आच्छन्नाः आ चक्रे सर्वतो व्याप्ता अकरोत् ॥ षष्ठी ॥ य॒दा च॒स्य॒ पय॑तो॒ जसु॑ भेद् बृह॒स्पति॑रमि॒तपोभिर॒र्कैः । द॒द्भिर्न जि॒ह्वा परि॑विष्ठ॒माद॑दा॒वनि॑धीर॑कृ॒णोद॒स्रिया॑णाम् ॥ ६ ॥ य॒दा । व॒लस्य॑ । पीय॑तः । जसु॑म् । भेत् । बृह॒स्पति॑। अ॒ग्नि॒तप॑ऽभिः । अ॒र्कैः । दत्ऽभिः । न । जिह्वा । परिऽविष्टम् । आदेत् । आविः । निऽधीन् । अ- कृ॒णो॒त् । उ॒स्त्रिया॑णाम् ॥ ६ ॥ बृहस्पतिर्देवो यदा यस्मिन् काले वलस्य एतन्नामकस्यासुरस्य पी- यतः । हिंसाकर्मैतत् । हिंसकस्य तस्य जसुम् हिंसासाधनम् आयुधं भेत् अभेद् अभिनत् । ४ भिदिर् विदारणे । लेट् । लघूपधगुणः । " इतव लोपः " संयोगान्तलोपश्च । छान्दसत्वाद् अडभावः ४ । कैः साधनैरित्युच्यते । अग्नितपोभिः अग्निवत्तापकैः अर्कैः दीप्तैः स्वरश्मिभिः मन्त्रैर्वा । तदा दद्भिः दन्तैः परिविष्टम् परितः खादितं मण्टकादिलक्षणम् अन्नं जिह्वा यथा अति तद्वद् वलनामानम् असुरम आदत अभक्षयत् । ततश्च उत्रियाणाम गवां निधीन आविरकृणोत् स्पष्टान् अकरोत् ॥ सप्तमी ॥ बृह॒स्पति॒रम॑त॒ हि यदा॑सा॒ नाम॑ स्व॒री॑णा॒ सद॑ने गुहा यत् । आ॒ण्डेव॑ भि॒त्वा श॑कु॒नस्य॒ गर्भमुदुस्रिया॒ पर्व॑तस्य॒ त्मना॑जत् ॥ ७ ॥ बृह॒स्पति॑ । अम॑त । हि । त्यत् । आसाम् । नाम॑ । स्व॒रीर्णा । सद॑ने । । गुह। यत् । । 1 So S' See foot-note on previous page.