पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०२. सू० १६.] ६३२ विंशं काण्डम् | ६०९ 66 आ॒ण्डाऽइ॑व । भि॒त्वा । श॒कु॒नस्य॑ । गर्भ॒म् । उत् । उ॒स्रिया॑ः । पर्व॑तस्य । त्मना॑ । आ॒ज॒त् ॥ ७ ॥ बृहस्पतिर्देवः गुहा गुहायां सदने । सीदत्यत्रेति सदनं स्थानम् । तस्मिन् स्वरीणाम् शब्दायमानानाम् आसां गवां त्यत् तत् प्रसिद्धं ना- मधेयं यत् यदा अमत हि ज्ञातवान् । ४ मनु अवबोधने । लुङि “ तनादिभ्यस्तथासोः " । इति सिचो लुक् । “ हि च " इति निघातप्रति- षेधः । अडागमस्वरः । तदानीं पर्वतस्य गिरेरन्तः स्थिता उत्रि- याः । उस्रम् उत्स्रावणं क्षीरस्यन्दनम् अर्हन्तीत्युस्त्रिया गावः । ताः ना आत्मनैव सहायनैरपेक्ष्येणैव । ♛ “ मन्त्रेष्वाड्यादेरात्मनः " इति आ- देराकारस्य लोपः । उदात् पर्वतविभेदनेन उदगमयत् । तत्र दृष्टान्तः । आण्डेव भित्त्वेति । शकुनस्य पक्षिणो मयूरादेः आण्डानि - त्वा तदन्तः स्थितं गर्भम् उद्गमयति तद्वत् ॥ 66 अष्टमी ॥ अनान♚ मधु पर्य॑पश्य॒न्मत्स्य॒ न दी॒न उ॒दानि॑ प्रि॒यन्त॑म् । निष्टज्ज॑भार चम॒सं न वृ॒क्षाद् बृह॒स्पति॑र्वि॒र॒वेणा॑ वि॒कृत्य॑ ॥ ७ ॥ अर्ना । अपि॑ऽनद्धम् । मधु॑ । परि॑ । अप॒श्य॒त् । मत्स्य॑म् । न । दीने । उ- दनि॑ । प्रि॒यन्त॑म् । निः । तत् । जभार् । चम॒सम् । न । वृक्षात् । बृह॒स्पति॑ः । वि॒र॒वेण॑ । वि॒ऽ- कृ॒त्य॑ ॥ ८ ॥ बृहस्पतिर्देवः अश्ना अश्मना पर्वतेन अपिनद्धं मधु मधुवनोगयोग्यं गोसमूहं पर्यपश्यत् अद्राक्षीत् । आवरणभूतपर्वतापसारणेनेति शेषः । तत्र दृष्टान्तः । दीने परिक्षीणे अल्पे उदनि उदके । * उदकशब्दस्य उदन्नादेशे " विभाषा ङिश्योः" इत्यलोपाभावपक्षे रूपम ४ । स्मिन् क्षियन्तम् निवसन्तं मत्स्यं [न] मत्स्यमिव । तं यथा जनः पश्यति 1 मधुवद्भाग.. ७७ त-