पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१० अथर्व संहिताभाष्ये द्वत् । तत् गोलक्षणं मधु चमसं न वृक्षात् । चम्यते भक्ष्यते अनेनेति चमसः सोमपात्रम् । चमसं यथा तदुपादानभूतान्निष्कृष्य हरति तवत् । विरवेण विविधशब्देन हम्भालक्षणेन लिङ्गेन ज्ञाला विकृत्य वलाख्यम असुरं गोरूपधारिणं द्वित्वा निर्जभार बिलान्निर्जहार || नवमी ॥ सोषाम॑विन्द॒त् स स्व॑तः॒ सो अ॒ग्निं सो अ॒र्केण॒ वि ब॑बाधे॒ बृह॒स्पति॒गव॑यु॒षो व॒लस्य॒ निर्म॒ज्जानं॒ न पवैणो जभार ॥ ९ ॥ 1 सः । उ॒षाम् । अवि॑न्द॒त् । सः । स्वरिति॑ स्वः । सः । अग्निम् । सः । अ॒र्केण॑ । वि । ब॒बाधे । तमसि । । बृह॒स्पति॑ः । गोऽव॑पुषः । व॒लस्य॑ । निः । म॒ज्जान॑म् । न । पर्वणः । जभार ॥९॥ स पूर्वोको बृहस्पतिः पर्वतकुहरे अन्धकारावस्थितानां गवां दर्शनाय उषाम् [ उषासम् ] उषसम् । छान्दसः सकारलोपः । अवि- न्दत् अलभत । स एव बृहस्पतिः [ स्वः ] | स्वरादित्यः । आदित्यं च प्रकाशाय अविन्दत् । एवम् असौ अग्निं च अविन्दत । लब्ध्वा च अर्के- ण तेजसा तमांसि वि बबाधे विशेषेण बाधितवान् । तदनन्तरं गोवपुषः वृषभरूपधारिणो वलस्य असुरस्य हननेन मज्जानं न पर्वणः अस्मः संबन्धिनं मज्जानम् षष्ठं धातुं पर्वणः अस्थिपर्वसकाशाद् यथा बलाद् निर्हन्ति तद् गा निर्जभार निष्कृष्य आहृतवान् ॥ दशमी ॥ हमेव॑ प॒र्णा मु॑षि॒ता वना॑नि॒ बृह॒स्पति॑नाकृपयद् व॒लो गाः । अ॒नानु॒कृ॒त्यम॑पुनश्र्च॑कार॒ यात् सूर्य॒मा मि॒थ उ॒ज्ञ्चरा॑तः ॥ १० ॥ हि॒माऽइ॑व । प॒र्णा । मुषि॒ता । वना॑नि । बृह॒स्पति॑ना । अ॒कृ॒पय॒त् । वलः । गाः । । अ॒न॒नुऽकृ॒त्यम् । अपुनरिति॑ । च॒कार॒ । यात् । सूर्यामास । मिथः । उत्ऽच- रोतः ॥ १० ॥ १ P स्व॒ऽरिति स्वः). Ce स्व' रिति स्वः 1. We with É J. | S' तत्र for तत्.