पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०२. सू० १६. ] ६३२ विंशं काण्डम् | ६११ बृहस्पतिना देवेन हिमेव पर्णा हिमानि पर्णानीव । यथा हिमा- नि पर्णानि निःसाराणि कृत्वा मुष्णन्ति एवं वनानि वननीयानि धना- नि गोलक्षणानि मुषिता मुषितानि आसन् । स च वलोपि गाः मु- षिता अकृपयत् । प्रायच्छद् इत्यर्थः । किं च स बृहस्पतिः तादृक् कर्म अननुकृत्यम् अन्यैरननुकरणीयम् अन्येन कर्तुम अशक्यं तथा अपुनः न विद्यते पुनस्तत् कर्म यस्मिन् तद् अपुनः पुनः करणरहितं च चकार कृतवान् । अन्यकर्तव्यरहितं स्वेनापि पुनः कर्तव्यरहितं चाकरोद् इत्य- र्थः । किं तत् कर्मेति उच्यते । यात् । यद् इत्यर्थः । ४ छान्दसो दीर्घः । सूर्यामासा । मस्यते परिमीयते स्वकलावृद्धिहानिभ्याम इति माचन्द्रमाः । मातीति वा माश्चन्द्रः । सूर्याचन्द्रमसौ । "दे- वताद्वन्द्वे च " इति आनड् । “ देवताद्वन्द्वे च ” इति उभयपदप्रकृति- स्वरत्वम् । “सुपां सुलुक्" इत्यादिना विभक्तेराकारः ४ । तौ मिथः परस्परम् अहोरात्रयोः उच्चरातः उच्चरतः ऊर्ध्वं गच्छत इति यत् तच्चकार ॥ एकादशी ॥ अ॒भि श्यावं न कृश॑नेभि॒रश्वं॑ नक्ष॑त्रेभिः पि॒तरो॒ द्यामपिंशन् । ° रात्र्यां॒ तमो॒ अद॑धुज्र्ज्योति॒रह॒न् बृह॒स्पति॑भि॒नदरि॑ वि॒दद् गाः ॥ ११ ॥ अ॒भि । श्या॒वम् । न । कृश॑नेभिः । अश्व॑म् । नक्ष॑त्रेभिः । पि॒तर॑ः । द्याम् । अपिंशन । रा॒त्र्य॑म् । तम॑ । अद॑धुः । ज्योति॑ः । अह॑न् । बृह॒स्पति॑ः । नित् । अ- नि॑म् । वि॒दत् । गाः ॥ ११ ॥ बृहस्पतिर्देवः यदा अद्रिम गवाम् आच्छादकं गिरिं भिनत् अभिनद् विदारितवान् विदार्य च यदा गांव विदत् । ङि ऌदित्त्वाद् अ‍ विला । लु- तदा पितरः पालका देवा इन्द्राद्याः श्या- वं न अवम् कपिशघर्णम अश्वमिव तं यथा लोके कुशनेभिः । कृश- नम् इति सुवर्णनाम । कृशनैः सुवर्णमयैराभरणैः पिंशन्ति अलंकुर्वन्ति 1 S' गाचाविदत् for गाव विदत्.