पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०२. सू० १७.]६३३ विंशं काण्डम् | तत्र प्रथमा ॥ अच्छ॑ म॒ इन्द्रो॑ म॒तय॑ स्व॒र्विद॑ स॒भ्रीची॒र्वश्वा॑ उश॒तीर॑नूषत । परि॑ ष्वजन्ते॒ जन॑यो॒ यथा॒ पति॒ मयै॒ न शु॒न्यं॑ म॒घवा॑नमू॒तये॑ ॥ १ ॥ ६१३ अच्छ॑ । मे॒ । इन्द्र॑म् । स॒तय॑ः । स्व॒ ऽविद॑ः । सधीचः । विश्वः । उशतीः । 1 अनूषत । परि॑ । स्व॒जन्ते॒ । जन॑यः । यथा॑ । पति॑म् । मर्य॑म् । न । शुन्ध्युम । म॒घवा॑ । नम् । ऊ॒तये॑ ॥ १ ॥ इन्द्रं देवम अच्छ अभिमुखीकृत्य मे मम सुहस्त्यस्य धौषेयस्य मत्तयः स्तुतय: अनूषत स्तुवन्ति । ४ नु स्तुतौ । लेः सिच् । “लिसि- चावात्मनेपदेषु ” इति किवद्भावाद् गुणाभावः ४ । मतयो विशेष्य- न्ते । स्वर्विदः स्वर्गस्य सुखस्य वा लम्भयित्र्यः सधीची: सहाञ्चनाः परस्परं संगताः । 8 अञ्जु गतिपूजनयोः । " ऋत्विग्दधृक्स्रग्" इत्यादिना नकारलोपः । सहस्य सभ्यादेशः । “ अञ्चतेश्चोपसंख्यानम् " इति ङीप् । भसंज्ञायाम् " अचः " इत्यकारलोपः ४ । विश्वाः व्याप्ता उशती: इन्द्रं कामयमानाः । आदरातिशयद्योतनाय उक्तमेवार्थ सदृष्टान्तं पुनराह परि ध्वजन्त इति । जनयः जनयन्ति उत्पादयन्ति अपत्यम् इति जनयो योषितः । ता यथा पतिं परि ध्वजन्ते दृढम् आलिङ्गन्ति । किं च शु- न्ध्यु॑म् शोधकं मयै न मर्त्यमिव यथा पित्रादिकं दूराद् आगतं पुत्रा- दयो बन्धुजना ऊतये स्वरक्षणाय परिष्वजन्ते तद् मघवानम् मघवन्तं धनवन्तम् इन्द्रम ऊतये रक्षणाय मे मतयः परि ष्वजन्ते । निर्धनस्य रक्षाकरणायोगाद् मघवन्तम् इत्युक्तम् ॥ द्वितीया ॥ न धा॑ व॒द्विप॑ वेति मे॒ मन॒स्त्वे इत् कामै पुरुहूत शिश्रय । राजैव दस्मा॒ नि ष॒दधि॑ ब॒र्हिष्य॒स्मिन्तं॒ सोमे॑व॒पान॑मस्तु ते ॥ २ ॥ १ BCs ब॒र्हिष्य॒स्मिन् २ B अव॒पानं° 1 So $ 28 शुध्यं, Sayana's text too is शुभ्यं and not शुन्ध्युम्.