पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। विंशं काण्डम् | ६१५ " तिङां तिङो भवन्ति" इत्येकवच- [अ०२, सू० १७.] ६३३ ईशते ईष्टे स्वामी भवति नस्याने बहुवचनम् 8 । किं च वृषभस्य वर्षकस्य शुष्मिणः बलवतः तस्येत् तस्यैवेन्द्रस्य संबन्धिन: इमे प्रसिद्धाः सप्त सिन्धवः स्यन्दनशीलाः " इमं मे गङ्गे " [ ऋ० १०.७५.५] इतिमन्त्रोक्ता गङ्गाद्याः सप्त सि- न्धवः प्रवणे अवनते देशे वयो वर्धन्ति अन्नं समर्धयन्ति । & वृधु वृद्धौ । णिच् । छन्दस्युभयथा ” इत्यार्धधातुकसंज्ञायां णिलोपः ४ ॥ ८८ चतुर्थी ॥ वयो॒ न वृक्षं सु॑पलाश॑मास॑द॒न्त्सोमा॑स॒ इन्द्रो॑ म॒न्दिन॑श्चमू॒षद॑ः । प्रैषा॒मनी॑कं॒ शव॑सा॒ दवि॑द्युतद् वि॒दत् स्व॑र्मन॑वे॒ ज्योति॒रार्य॑म् ॥ ४ ॥ वर्यः । न । वृ॒क्षम् । सुप॒लाशम् । आ । असदन । सोमा॑सः । इन्द्र॑म् । म॒न्दिन॑ः । च॒मू॒ऽसद॑ः । । म । एषाम् । अनी॑कम् । शव॑सा । दवि॑द्युतत् । वि॒दत् । स्वः॑ । मन॑वे । ज्योतिः | आर्यम् ॥ ४॥ । वयो न वृक्षम् यथा वयः पक्षिणः सुपलाशम् शोभनपर्णोपेतं पल्लवितं वृक्षम् आसीदन्ति तद्वद् मन्दिनः मदकराः चमूषदः चम्वोरधिषवणफल- कयोरवस्थिताः सोमासः सोमा इन्द्रम् आसदन । एषां सोमानाम् अ- नीकम समूहो मुखं वा [ शवसा ] दविद्युतत् द्योतते । 2 " दाधर्ति दर्धर्ति" इत्यादिना यङुगन्ताद् द्युतेः शतरि अभ्यासस्य संप्रसारणाभावः अभ्यासस्य अत्वं विगागमश्च निपात्यते । " अभ्यस्तानाम् आदिः " इ- त्याद्युदासः ४ । किं च तद् अनीकं स्वः आदित्याख्यम् आर्यम अर्यम अरणीयम अभिगमनीयं ज्योतिः मनवे मनुष्याय मनुष्याणां प्रका- शाय विदत् अविदत् । प्रायच्छद् इत्यर्थः ॥ पञ्चमी ॥ कृ॒तं न व॒ वि च॑नोति॒ देव॑ने सं॒वर्गे यन्म॒घवा॒ सूर्यो॒ जय॑त् । १ BR ३ for १ . We with KKBCDES VDO. 1S' om. वृक्षम् .