पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१८ अथर्व संहिताभाष्ये वर्धने दृष्टान्तः यवं न वृष्टिरिति । वृष्टिः । वर्षतीति वृष्टिर्मेघः । स यथा दिव्येन दिवि भवेन दानुना उदकदानेन वृष्टिरेव वा दिव्येन स्वकीयेन दानेन यवं न यवमिव तं यथा वर्धयति तद्वत् ॥ अष्टमी || वृषा॒ न क्रुद्धः प॑तय॒द् रज॒स्वा यो अर्थप॑नी॒रकृ॑णोति॒मा अ॒पः । स सु॑न्व॒ते म॒घवा॑ वी॒रदा॑न॒वेवि॑न्द॒ज्योति॒र्मन॑वे ह॒विष्म॑ते ॥ ८ ॥ 1 ' वृषा॑ । न । क्रुद्धः । प॒तय॒त् । रज॑सु । आ । यः । अ॒र्यऽपत्नीः । अकृणोत् । इमाः । अपः । सः। सुन्व॒ते । म॒घवा॑ । ज॒रदा॑नवे । अवि॑न्दत् । ज्योति॑ । मन॑वे । - विषते ॥ ८ ॥ । । य इन्द्रः अर्यपत्नी: अर्येण अभिगन्त्रा आदित्येन पालिता इमा: म- सिद्धा अप: उदकानि अकृणोत् करोति भूमिष्ठानि करोति स इन्द्रो वृषा न क्रुद्धः यथा क्रुद्धः क्रोधेन अन्धीभूतो वृषा वृषभः सर्वतः पत- ति गच्छति स्वप्रतिमलं वृषभं पराभवितुम एवं स इन्द्रो रजःसु लो- केषु आ सर्वतः पतयत् पतति गच्छति । मेघं दारयितुम् इति शेषः । अनन्तरं मघवा धनवान् इन्द्रः सुन्वते सोमाभिषवं कुर्वते जीरदानवे क्षि- प्रदानाय शीघ्रं हविः प्रयच्छते हविष्मते हविर्भिः सोमादिभिस्तद्वते भ नवे मननवते यजमानाय ज्योतिः प्रकाशकं तेजः अविन्दत् अलभत प्रा- यच्छत् प्रयच्छति ॥ नवमी ॥ उर्जायतां पर॒शुज्र्ज्योति॑षा स॒ह भू॒या ऋ॒तस्य॑ सु॒दुघा॑ पु॒राण॒वत् । वि रो॑चतामरुषो भानुना शुचिः स्व॑प॒र्ण शु॒क्रं शु॑शु॒चीत॒ सत्प॑त्तिः ॥ ९ ॥ उत् । जा॒य॒ताम् । प॒र॒शुः । ज्योति॑षा । स॒ह । भूयाः । ऋ॒तस्य॑ । सु॒दुघा॑ । पुराणवत् । 1S वर्धयंति. 2 S' शीघ्र for शीघ्रं.