पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०२. सू० १७.] ६३३ विंशं काण्डम् | । ६१९ वि । रोचताम् । अरुषः । भा॒नुना॑ । शुचिः । स्वः । न । शुक्रम । शुशु- चीत । सत्प॑तिः ॥ ९ ॥ परशुः इन्द्रस्य वज्रः ज्योतिषा स्वतेजसा [सह ] उज्जायताम् ऊर्ध्व प्रादुर्भवतु मेघविदारणार्थम । किं च ऋतस्य उदकस्य संबन्धिनी सुदुघा सुष्ठु दोहयित्री माध्यमिका वाक् । हकारस्य घकारः । पुराणवत् भूयात् । ४ पुरुषव्यत्ययः ४ । 66 "दुहः कन्पख " इति कप् । पूर्व यथा इदानीमपि एवं भूयाः किं च अरुषः आरोचमानो भा- नुना स्वतेजसा शुचिः प्रज्वलन वि रोचताम् प्रकाशताम् । उक्तमेवार्थ सदृष्टान्तं पुनराह । स्वर्ण शुक्रम स्व: आदित्यः स यथा शुक्रम दीप्तं तेजः प्रकाशयति । तेजसा स्वयं दीप्यत इत्यर्थः । एवं सत्पतिः सतां पालक इन्द्रः शुशुचीत अत्यन्तं दीप्यताम् । ४ शुच शोके । व्यत्ययेन आ- मनेपदम् । लिङि “बहुलं छन्दसि ” इति शप: श्रुः । सीयुडादिः ४ ॥ दशमी ॥ " गोभि॑ष्टर॒माम॑ति॑ दु॒रेवा॒यवे॑न॒ क्षुषे॑ पुरुहूत॒ विश्वा॑म् । व॒यं राज॑भिः प्रथ॒मा धना॑न्य॒स्माके॑न वृ॒जने॑ना जयेम ॥ १० ॥ । गोभि॑ः । त॒रेम॒ । अम॑तिम् । दुःऽएवम्। यवे॑न । क्षुध॑म् । पु॒रु॒ऽहूत॒ । विश्वा॑म् । व॒यम् । राज॑ऽभिः । म॒थ॒माः। धना॑नि । अ॒स्माके॑न । वृ॒जने॑न । जये ॥१०॥ हे पुरुहूत बहुभिराहूत इन्द्र वयं घौषेयाः सुहस्त्या यजमानास्त्वया- नुगृहीताः सन्तो गोभिः त्वया दत्ताभिः दुरेवाम् दुष्टगमनाम् अमतिम् दारिद्र्यं तरेम निस्तरेम । किं च यवेन । उपलक्षणम् एतत् । त्वया दत्तैर्यवव्रीह्यादिभिः विश्वाम् सर्वा पुत्रभृत्यादिविषयां क्षुधम् अशनेच्छाम् । तरेमेति शेषः । किं च प्रथमाः तवानुग्रहेण समानानां मध्ये मुख्यभूता वयं राजभिः क्षत्रियैर्भूपालैर्धनानि बहूनि । लभेमहीति शेषः । एषु सं- पन्नेषु सत्सु स्म अस्मत्संबन्धिना । * संबन्धार्थे अणि विहिते 'तस्मिन्नणि च युष्माकास्माकौ " इति [अस्माकादेशः ] । वृद्ध्यभावश्छा- न्दसः । वृजनेन बलेन जयेम । शत्रून इति शेषः ॥ 1 S' घोषेयाः.