पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२० अथर्व संहिताभाष्ये एकादशी ॥ बृह॒स्पति॑र्ण॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः । इन्द्र॑ पु॒रस्ता॑दु॒तम॑ध्य॒तो नः॒ सखा सत्रि॑भ्यो॒ वरि॑वः कृ॒णोतु ॥ ११ ॥ बृह॒स्पति॑ः । न॒ः । परि॑ । पातु । प॒श्चात् । उ॒त । उत्तरस्मात् । अर्धरात् । अघयोः । । इन्द्र॑ः । पु॒रस्ता॑त् । उ॒त । म॒ध्य॒तः । नः॒ सखा॑ । सखिभ्यः । वरिवः । कृणोतु ॥ ११ ॥ बृहस्पतिर्देवः पश्चात् पश्चिमदेशाद् आगच्छतः अघायोः अयं पापं परेषाम् इच्छतो हिंसकात् । "छन्दसि परेच्छायाम्" इति क्यच् प्रत्ययः । " क्याच्छन्दसि ” इति उप्रत्ययः । " अश्वाघस्यात्" इति आ- त्वम् । प्रत्ययस्वरः । तस्माद् नः अस्मान् परि पातु सर्वतो र- क्षतु । उत अपि च उत्तरस्माद् अधराच्च देशाद् आगच्छतः अघायोः नः अस्मान् परि पातु । एवम् इन्द्रोपि देवः पुरस्ताद् आगच्छतः अघा- योः परि पातु । मध्यतः मध्यमाद् देशादप्यागच्छतः परि पातु । एवं सर्वतो रक्षां कृत्वा सखा मित्रभूत इन्द्रः सखिभ्यः सखिभूतेभ्यः अस्मभ्यं वरिवः । धननामैतत् । धनं कृणोतु करोतु प्रयच्छतु । हविःप्रदानवरम- दानाभ्यां परस्परं सखिभावो द्रष्टव्यः ॥ द्वादशी ॥ बृह॑स्पते यु॒वमिन्द्र॑श्च॒ वस्वो॑ दि॒व्यस्यैशाचे उ॒त पार्थि॑वस्य । धत्तं र॒यिं स्तु॑व॒ते कीरये चिद्यूयं पा॑त॒ स्व॒स्तिभिः॒ सदा॑ नः ॥ १२ ॥ बृह॑स्पते । यु॒वम्। इन्द्र॑ः । च॒ वस्वः॑ । दि॒व्यस्य॑ । ई॒शाये॒ इति॑ । उ॒त । पार्थि॑वस्य । धत्तम | रयिम | स्तुवते । चि॒त् । यूयम । पा॒त॒ । स्व॒स्तिऽभिः । स- दो । नः ॥ १२ ॥ रये॑ हे बृहस्पते त्वं च इन्द्रश्च युवम् युवाम् । 1 S' आत्मनः for परेषाम्. 2 S' अधरात् for मध्यतः मध्यमात्.

  • " प्रथमाया जिव-