पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ३. सू० १४.] ६३४ विंशं काण्डम् । ६२३ क्षितुम् इच्छां कुर्वन्ति । स्वप्नाय । स्वप्नशब्देन अनादरो लक्ष्यते । तद्विषया- नादराय न स्पृहयन्ति नेच्छन्ति । औदासीन्यं न कुर्वन्तीत्यर्थः । हेरीप्सितः" इति कर्मणि चतुर्थी हैं । "स्पृ- किं तु प्रमादम प्रकर्षेण माद- यितारं [तं] तस्य मदकरं सोमं वा उद्दिश्य अतन्द्राः अनलसाः सन्तो यति गच्छन्त्येव । * स्पृहयन्तीति । स्पृह ईप्सायाम् । चुरादिरदन्तः ॥ चतुर्थी ॥ व॒यमि॑न्द्र वा॒यवो॒भि प्र णो॑नु॒मो वृषन् । fast at a वसो ॥ ४ ॥ व॒यम् । इ॒न्द्र॒ । त्वा॒ऽयवः॑ । अ॒भि प्र । नो॒नुम॒ः । वृषन् । विद्धि । तु । अस्य । नः । वसो इति ॥ ४ ॥ " हे वृषन् कामानां वर्षक इन्द्र त्वायवः त्वाम् इच्छन्तो वयम् । "सुप आत्मनः क्यच् ” । “ प्रत्ययोत्तरपदयोश्च ” इति त्वादेशः । कृदन्तत्वात् प्रातिपदिकसंज्ञायां सुपो लुक् । "क्याच्छन्दसि ” इति उप्रत्ययः । प्रत्य- यस्वरेण मध्योदात्तः अभि प्र णोनुमः आभिमुख्येन प्रकर्षेण स्तुमः । तु अपि च हे वसो वासक इन्द्र त्वमपि नः अस्मदीयम अस्य एतत् स्तोत्रं विद्धि कामय ॥ पञ्चमी ॥ मा नो॑ नि॒दे च वक्त॑वे॒र्यो र॑न्धीररा॑णे । त्वे अपि॒ क्रतु॒र्मम॑ ॥ " मा नः॑ । नि॒दे । च । वक्त॑वे । अर्यः । रन्धीः । अरा॑णे । इति । अपि । ऋतुः । मम॑ ॥ ५ ॥ । [ अर्य: स्वामी तम] हे इन्द्र नः अस्मान् निदे च निन्दकाय च मा रन्धीः वशं मा नैषीः । ४ र लुङि सिचि “इट ईटि " [इति सिज्लोपे ] " रधिजभोरचि” इति नुमि कृते “न माङ्योगे" इत्यड- भावे रूपम् । वक्तवे च परुषभाषिणे च मा रन्धीः । अराणे .1 S/ उदासीनं.